________________
सरः]
त्रिगुणपरीक्षायां सहव्यवादसाधने कार्योपादानाभेदे प्रमाणम्
247
तत्वमुक्ताकलापः द्रव्यैक्यं प्रत्यभिज्ञा प्रथयति परिमित्यन्तरेऽन्याप्रतीतेः
सर्वार्थसिद्धिः प्रमाणमेवात्र प्रमाणामित्याह-द्रव्यैक्यमिति । परिमित्यन्तरेसत्यपीति शेषः । इदं च भेदसाधकानामुपलक्षणम् ; यथाप्रसारितस्याकुञ्चितस्य च दीर्घत्वहस्वत्वे यथा च धनीकृतस्य विरलीकृतस्य च तूलपिण्डस्य अल्पत्वविपुलत्वे दृश्येते एवं वृत्तचतुरश्रत्वादिविशेषे दृष्टेऽपि स्यात् ? कुतः? अन्याप्रतीतेःद्रव्यान्तरस्यादर्शनादित्यर्थः । अन्यथा सर्वत्र यत्किञ्चिदवस्थाभेदमात्रेऽपि द्रव्यभेदो दृश्यते इति धृष्टवादे का प्रत्युक्तिः?
आनन्ददायिनी प्रमाणमेवेति-बाधकाभावे प्रत्यभिज्ञायाः जातिविषयत्वादिना अन्यथासिद्धिवर्णनमयुक्तम् अन्यथा कस्यापि वस्तुनः स्थैर्य न सिद्धयेदिति भावः । भेदसाधकानामिति–नामसंख्यादीनाभित्यर्थः । यथा च धनीकृतस्येति यद्यपि द्रव्यान्तरोत्पत्तिस्तूलपिण्डादौ प्रचयस्य परिमाणहेतुत्वं वदताऽङ्गीकृता ; तथाऽपि पद्मसंकोचविकासादिस्थले न्यायवार्तिकादावनारम्भस्योक्तत्वा (तुल्यत्वा) न्नात्राऽप्यवयव्यारम्भ इति सिद्धवत्कृत्योक्तिः । नन्ववयव्यन्तरसाधकबलात् प्रत्यभिज्ञा जातिविषया भवतु इत्याशङ्कय ; किं द्रव्यान्तरमुपलब्ध्या वदास उत लिङ्गात् ? इति विकल्प्य आद्यं दूषयति-अदर्शनादिति । नन्ववस्थाभेदस्थले घटपटादौ भिन्नद्रव्यप्रतीतिनियमादत्राप्युपलम्भोऽस्त्येव ; तन्तुपटावस्थाभेदात् इत्यत्राह--अन्यथेति । तथाच अवस्थाभेदस्थले भिन्नद्रव्यप्रतीतिनियमो नास्तीत्यर्थः । ननु