SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 246 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः एकदेशे समस्ते च वृक्षलक्षणसम्भवे । वृक्षधीरुपपद्यत सङ्ग्रहाच्चापृथङ्मतिः॥ सर्वाग्रहणमवयव्यसिद्धेरिति सूत्रयन् । प्रत्यक्षव्यतिरिक्तान्त क्लुप्तिदौस्थ्यपराहतः॥ सेनावनवदित्यादावप्रत्यक्षाणुसूत्रणम् । त्रसरेण्ववधिस्थाणुस्थापकेषु न शोभते ॥२१॥ एवं तन्तुपटादीनां भेदे बाधकं तत्साधकानामन्यथासिद्धत्वं चोक्तं; तथाऽप्यभेदे किं प्रमाणमिति वदन्तं प्रति 'स्थिरत्वे _ आनन्ददायिनी वृक्षत्वे समुदायप्रतीतावेव वृक्षधीस्स्यात् न त्वेकदेशशाखादिप्रतीतावित्यत्राह----एकदेश इति । एकदेशस्यापि जलावयवस्य जलवत् वृक्षत्वादित्यर्थः । तर्हि शाखादीनामपि वृक्षलक्षणयोगाद्वक्षत्वे वृक्षकत्वॉर्न स्यादित्यत्राह-संग्रहाचेति । सर्वेषां शाखाद्यवयवानां जलराशिवद्दढतरसंश्लेषादेकवृक्षबुद्धिरित्यर्थः । यदुक्तमक्षपादोक्तमनतिक्रमणीयं स्यादिति ; तद्दषयति-सर्वाग्रहणमिति । प्रत्यक्षव्यतिरिक्तपरमाण्वन्ततत्वपङ्क्तिक्लप्ताविदं दूषणं स्यात् ; नच तदन्तक्लप्तिः ; दौस्थ्यपराहतत्वात् ; तथाच तत्कल्पकोऽक्षपादोऽपि पराहत इत्यर्थः। किंच 'सेनावनवद्ग्रहणमिति चेन्न अतीन्द्रियत्वादणूनाम् ' इति अवयव्यभावमाशङ्कय अप्रत्यक्षत्वप्रसङ्गादवयविसाधनं चायुक्तमित्याह-सेनेति ॥२१॥ उत्तरश्लोकेनाप्यवयविखण्डनं क्रियते इति पौनरुक्तयं (परिहरन्) पूर्वशेषत्वात् (संगत्यन्तरंन्ना)नास्तीत्यभिप्रायेणाह-तन्तुपटादीनामिति।स्थिरत्वे भावप्रकाशः परकालस्थायिमृद्धटाबैक्यं साधयितुमलमिति व्यञ्जयति-*स्थिरत्वे प्रमाणमेवात्र प्रमाणमित्यनेन ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy