________________
सरः] त्रिगुणपरीक्षायां सहव्यवादसाधने अवयविसाधक न्यायवार्तिककारन्यूनता 245
सर्वार्थसिद्धिः मुधा चोदाहृतं *कौश्चि*द्धिमवत्परमाणुकम् । टीकाकारस्तु तत्राह सूक्ष्मद्रव्योपलक्षणम् । विशेषानुपलम्भेऽपि राश्येकत्वमतिर्यथा । वृक्षादिष्वपि तद्वत्स्याद्यथादृष्टि व्यवस्थितः ॥
आनन्ददायिनी वाप्रत्यक्षमित्याशङ्कितं न तु पृथिव्यादिकमित्यत्राह--मुधा चोदाहृतमिति हिमवत्सहितः परमाणुरस्येति बहुव्रीहिः; 'तदस्य परिमाणम्' इति वा निर्वाहमाहुः । स एषां ग्रामणीः' इति मान्याः; हिमवत्परमाणू ग्रामण्यौ निर्वाहकौ–कारणे इति निर्वहन्ति। ब्रीह्यादित्वात् मत्वर्थे इनिरिति केचित् । पृथिव्यादिकं परित्यज्याविमृश्य विशेषत उदाहरणं व्यर्थमित्यर्थः । अत एव टीकाकारस्तदुदाहरणमुपलक्षणमित्युक्तवानित्याहटीकाकारस्त्विति। ननु अवयव्यनभ्युपगमे संघातस्य बहुत्वात्कथमेकत्वधी. व्यवहारावित्यत्राह --- विशेषानुपलम्भेऽपीति । विशेषोऽवयवी तस्य राश्यादिष्वभावेऽपीत्यर्थः । वृक्षादिष्वपीति-स्कन्धपलाशादिव्यतिरिक्तावयव्यनभ्युपगमेऽपि वृक्षधीः राश्यादाविव स्यादित्यर्थः । ननु संघातस्यैव
भावप्रकाशः प्स्यत ; स च खपुष्पसोदर एवेति । '* कैश्चित्-न्यायवार्तिककृाद्भिः ।
हिमवत्परमाणुकमिति-उदाहृततात्पर्यटीकापलोचने हिमवान् परमाणुरस्येत्यादिव्युत्पत्त्या हिमवत्परमाणुकं व्यणुकमिति यथाश्रुतार्थः प्रतीयते। न वयं बौद्धवदतिरिक्तावयव्यङ्गीकारे वृत्तिविकल्पानुपपत्त्यादिबाधकमात्रमुद्भाव्य अवयवातिारक्तमवयविनं व्यासेधामः ; किंतु करणाकरणरूपविरुद्धधर्माध्यासेन पूर्वापरकालस्थायि वस्तु नैकं अपि तु क्षणिकमेवेति वादिनो वैनाशिकान् प्रतिक्षिपतां भवतां पूर्वापरकालस्थायिवस्त्वैक्यं साधयति यत् प्रत्यभिज्ञाप्रमाणं तदेवार्धवैनाशिकान् युष्मानपि परिभूय पूर्वा