________________
244
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः प्रत्यक्षातीन्द्रियोपात्ते प्रत्यक्षत्वं च दुर्भणम् । चाक्षुषाचाक्षुषद्रव्यसंयोगे चाक्षुषत्ववत् ।।
आनन्ददायिनी पृथिव्याः प्रत्यक्षातीन्द्रियोपात्ततया तादृशगगनघटसंयोगवत् प्रत्य(क्षत्वं)क्षं न स्यादित्याह-प्रत्यक्षातीन्द्रियति । न्यायवार्तिकादौ हिमवत्परमाणुकमे
भावप्रकाशः दृढीकरोति-* प्रत्यक्षातीन्द्रियोपात्ते इत्यादिना । एतेन तात्पर्यटीकायां-- परमाणुग्रहणं सूक्ष्मद्रव्योपलक्षणार्थम् । न पुनः परमाणोः घ्यणुकादन्यत्रारम्भसंभवः । न च विवादाध्यासितः परमाणुः महद्दव्यमारभते परमाणुत्वात् व्यणुकारम्भकपरमाणुवत् ; अमहत्त्वाच्च न हिमवत्परमाणुकं प्रत्यक्षं स्यात्' इति वार्तिकयथाश्रुतार्थासांगत्यमुपपाद्य तस्माद्धिमवद्धिमबिन्दुभ्यां संसर्गिभ्यां संयोगादवयवि द्रव्यमारभ्यते । महत्त्वं चास्यावयवमहत्त्वादुत्पद्यते । तथाच चाक्षुषत्वमस्य भवति । एवं तोयदविमुक्तोदबिन्दूदधिसंयोगात् द्रव्यान्तरोत्पत्तिः प्रतिपत्तव्या' इति वार्तिकपरिष्करणमपि मुघेति बोधितम् ; तथा हि - हिमबिन्दौ अप्रत्यक्षत्वमभ्युपेत्य महत्त्वाङ्गीकारेऽपि तदारब्धे प्रत्यक्षातीन्द्रियोपात्तत्वविरहात् । अतीन्द्रियत्वस्येन्द्रियजन्यप्रत्यक्षायोग्यत्वरूपत्वात् । अतएवाप्रत्यक्षपदपरित्यागः । “यादृशात्संसर्गविशेषादवयवी तवोत्पद्यते तादृशसंसर्गविशिष्टास्तन्तवः पट' इत्यनेन पूर्वमेव सर्वत्रावयवी निरस्त इति व द्रव्यान्तरकथा ? अतश्चाक्षुषाचाक्षुषद्रव्यसंयोग उभयसंमतो यदि चाक्षुषोऽभविष्यत् तदा भक्त · उदाहरणमल