SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सहव्यवादसाधने अवयविनिर्धारकपक्षिलाद्यचातुर्यम् 243 सर्वार्थसिद्धिः . . . . नोत्तरं सम्यगब्रवीत् ।। आरब्धकायरारम्भो मिथस्सप्रतिघत्वतः ॥ न्यायवार्तिकटीकादौ क्षिप्तः संमतिरत्र नः। ___ आनन्ददायिनी आरब्धकारिति । क्षिप्तः-आक्षिप्तः । अवयव्यारम्भपक्षे प्रतिक्षणं पृथिव्यादीनां परमाणुसंयोगविभागाभ्यां पूर्वविनाशोऽपूर्वोत्पत्तिश्चावश्यकाविति । प्रत्यक्षं खण्डपृथिवी अतीन्द्रियः परमाणुः ताभ्यामुत्पन्नायाः भावप्रकाशः तृणोपलेत्यादिवार्तिकोक्तिः तृणोपलेत्यादिश्लोकेन प्रतिक्षिप्ता । * सम्यगिति-अतिरिक्तावयव्यङ्गीकारे गौरवेण इदं घटगरावादिकं पूर्वाह्ने मृत्तिकैवासीदित्यादिप्रतीतिविरोधेनातिरिक्तावयविसाधकप्रमाणान्तरविरहेण च सिद्धान्ते लाघवादेर्विनिगमकत्वेन 'विशेषहेत्वभावात् ' इति न्यायवार्तिकोक्तमुत्तरं तु न सम्यगिति भावः। न्यायवार्तिके चोद्योतकरेण 'नान्योऽवयव्यवयवेभ्यो प्रत्यक्षत्वप्रसङ्गात्-प्रत्यक्षाप्रत्यक्षवृत्तिरवयव्यप्रत्यक्षस्स्यात् यद्यवयव्यथान्तरं स्यात् ; यथा गर्भमातृसंयोगः प्रत्यक्षाप्रत्यक्षवृत्तिर्न प्रत्यक्षः ; प्रत्यक्षस्त्ववयवी; तस्मान्नासौ तेभ्योऽर्थान्तरं इति प्राचां दूषणमनूद्य प्रत्यक्षत्वादेव नार्थान्तरमिति विरुद्धो हेतुः । गर्भमातृसंयोगश्चाप्रत्यक्ष इति किमयं प्रत्यक्षाप्रत्यक्षाभ्यामारम्भादप्रत्यक्षः उत. प्रत्यक्षाप्रत्यक्षवृत्तित्वादप्रत्यक्षः ? यद्याद्यः हिमवत्परमाणुकमप्रत्यक्षं प्राप्नोति । तस्य क. एव प्रत्यक्षः एक एवाप्रत्यक्षः' इत्यादिना तत्परिहार उक्तः । तत्र प्राचीनोक्तदूषणपरिहरणमसंगतमिति बोधयन् प्राचीनोक्तदूषणमेव 16*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy