________________
242
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः 1 * संग्रहप्रभवं चात्र धारणाद्यनुभाष्य तु ॥ पक्षिलस्तन्मतस्थो वा
आनन्ददायिनी व्यभिचारः परिहृत इत्यत्राह-संग्रहप्रभवं चेति । संग्रहप्रभवंजतुसंगृहीतिजन्यमित्यर्थः । एवं सप्रतिघत्वविरोधोऽपि द्वितन्तुकपटाद्युत्पत्तिस्थले टीकाकारादिभिः शङ्कितो न सम्यक्परिहृत इत्याह
भावप्रकाशः यवसमुदाय एव नातिरिक्तोऽवयवीति भावः । 1 * संग्रहप्रभवमित्यादियथाऽऽह न्यायभाष्ये पक्षिल:-'संग्रहकारिते वै धारणाकर्षणे ! संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहगवत्वकारितमपां संयोगादामे कुम्भेऽग्निसंयोगात्पक्के।यदि त्ववयवि(व)कारितेऽभविष्यतां पांसुराशिप्रभृतिष्वप्यज्ञास्येताम्। द्रव्यान्तरानुत्पत्तौ. च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्वपि नाभविष्यताम्' इति । उद्योतकरश्च तन्मतस्थो न्यायवार्तिकेऽपि—'यानि तृणोपलकाष्ठानि जतुसंगृहीतान्याकृष्यन्ते धार्यन्ते चेत्यवयविन एवैते । यदि च निरवयवे चावयवे च धारणाकर्षणे स्याताम् ; स्याद्विरोधः । यदिदमुच्यते संग्रहकारिते इति ; न ; विशेषहेत्वभावात् । संग्रहकारिते धारणाकर्षणे नावयविकारिते इति नच भवता विशेषहेतुरपदिश्यते इति पांसुराशिप्रभृतिषु च कस्मात्संग्रहो नास्तीति वाच्यम् । य एवात्र संग्रहाभावे भवतो हेतुः स एवावयविनो विद्यमानस्य धारणाकर्षणयोरभावे इति । कः पुनरसौ ? उक्तोऽसावेकदेशगृहीतस्य तत्सहचरितस्य संबन्धविशेष इति । स च पांसुराशिप्रंभृतिषु नास्ति ; तस्मान्न तत्र धारणाकर्षणे इति' इति । अत्र या