________________
सरः] त्रिगुणपरीक्षायां सट्टव्यवादसाधने अवयविसाधकहेतोरनेकान्तिकत्वम् 241
सर्वार्थसिद्धिः दृढावयवसंश्लेषसहितेऽवयविन्यपि । अंशान्तरेषु तेऽस्माकं सिद्धे जतुगृहीतवत् । तृणोपलादिजतुसंगृहीतं यदुदाहृतम् ॥ तत्राप्यवयवी नेष्टः कश्चिज्जतुतृणादिषु । पाशाद्यैरपि पश्वादेर्धारणाकर्षणे (क्षमे) क्षणे ॥ किं तत्र पशुपाशादिष्ववयव्यभ्युपेयते ? ।
आनन्ददायिनी वान्तरेषु दृढतरसंश्लिष्टदृढाकृष्टावयवानुबन्धतो धारणाकर्षणे भवत इति नावयव्यपेक्षा । जतुगृहीतवदिति-तृणोपलायस्कान्तादीनामप्युपलक्षणम् । जतुगृहीतिस्थले एकस्य धारणाकर्षणमात्राजतुगृहीतयोरुभयोर्धारणाकर्षणवदित्यर्थः । ननु जतुगृहीतादिष्ववयव्यस्तु इत्यत्राह-तृणोपलेति। तृणग्राही उपलस्तृणोपलः; शाकपार्थिवादिः । यदुदाहृतं—यदृष्टा - न्ततयोक्तं तृणोपलादिकं तत्र जतुतृणाद्यवयवेषु तव कश्चिदवयवीष्टोऽपि न ; तथाऽपि धारणाकर्षणे वर्तेते इत्यर्थः । अपिस्त्वर्थः । स्फुटतरव्यभिचारस्थलमाह-पाशाद्यैरिति । धारणाकर्षणयोरीक्षणे—दर्शने सतीत्यर्थः । धारणाकर्षणे क्षमे इति पाठान्तरम् । किं तत्रेति-किमिति नाभ्युपेयत इत्यर्थः । ननु जतुसंगृहीत्यादिस्थलेषु पक्षिलभाप्यादिषु
भावप्रकाशः याविधारणादीति स्फुटम् । एवं सत्यवयविनोऽतिरिक्तस्यानाकारेऽप्यंकदेशग्रहणे सत्यशान्तराणां तेन गाढसंश्लेषण धारणादिकमुपपद्यत इति धारणाकर्षणानुपपत्तिप्रसङ्गविरहेण गोघटादिरुपलभ्यमानो गाढसंश्लिष्टाव
SARVARTHA.
16