SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः तारभूतावयव्यर्थे संघाते सा भविष्यति । गाढावयवसंश्लेषरहितेऽवयविन्यपि ॥ धारणाकर्षणे न स्तः तथाचाभ्युपगच्छसि । धारणाकर्षणे चात्र धृताकृष्टानुबन्धतः ॥ आनन्ददायिनी धारणाकर्षणोपपत्तेश्च' इति गौतमेनासूत्रयतेत्यर्थः । अत्र विपर्यये पर्यवसानेनावयव्यङ्गीकारे धारणाकृष्टी उपपद्येते इत्युपपत्तिरेव सूत्रेण - प्रतिपादितेत्यर्थः । तादृगिति -- धारणाकृष्टियोग्यावयव्युत्पादक संघातमात्रादेव तदुपपद्यत इत्यर्थः । धारणाकर्षणयोरवयविसाध्यताऽपि नेत्याहगाढावयवेति । अवयव्युत्पादकासमवायिकारणसंयोगो यत्र दृढो न भवति कोमललतादौ तत्र धारणाकर्षणे प्रति न प्रयोजकमवयवि ; नच तत्रावयव्यभावः । तथाचेति -- धारणाकर्षणाद्यभावेऽपि तत्रावयव्यभ्युपगच्छसि । कुत्र तर्हि धारणाकर्षणे अभ्युपगम्येते इत्यत्राह - धारणेति । अवयविन्यपि सति गाढावयवसंश्लेषे सत्येव धृताकृष्टानुबन्धतः । धृताकृष्टसंबन्धेन धारणकर्षणे भवत इति वक्तव्यम् ; तथा 240 6 [ जडद्र व्य भावप्रकाशः तात्पर्यटीका - ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं साधयतः । कुतः ? निरवयवे विज्ञानाकाशादौ अवयवे च परमाणौ चादर्शनात् । इदमेवं प्रयोगमारोहति — योऽयं दृश्यमानो गोघटादिरवयविपरमाणुसमूहभावेन विवादाध्यासितः नासाववयवी धारणाकर्षणानुपपत्तिप्रसङ्गात्' इत्यादि । * धृताकृष्टानुबन्धत इत्यादि - यदावयविन एकदेशं गृह्णाति तदैकदेशग्रहणेन सहावयविनमपि गृह्णाति 'इत्याद्यदाहृतन्या वार्तिके अवयवावयविभावसंबन्धसत्त्वादेवावयवग्रहाणेनाव .
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy