________________
सरः]
त्रिगुणपरीक्षायां सहव्यवादसाधने खमते दूषणपरिहारः
235
सर्वार्थसिद्धिः निरवयवस्यांशभेद ? इति चेत् आत्मानं पृच्छ ; कर्णशष्कुल्याधुपाधिपरिच्छित्तया नभसि नानाश्रोत्राणि कल्पयसि । भेर्यादिशब्देषु श्रूयमाणेषु तरङ्गवृत्त्या तत्तदनन्तरदेशेषु शब्दोत्पत्ति साधयसि । वेणुरन्ध्रादिविशेषभागाश्च प्रसिद्धाः । आकाशादेरप्रत्यक्षत्वात्तदंशतारतम्यं दुर्ग्रहमिति चेन्न; प्रत्यक्षाकाशवादिनं प्रति हेत्वसिद्धेः। त्वयाऽपि माषादवयविनो महीधरस्याधिकदेशत्वं गृह्यते । आलोकमण्डलांशभेदैस्तत्र देशाधिक्यमिति चेन्न; अलोकस्यापि नभसि न्यूनाधिकदेशवृत्तित्वदृष्टेः । परिमाणाधिक्यमात्रमेव पर्वतादिषु गृह्यत इति चेत् ; अगृह्यमाणमपि देशाधिक्यं तत्रास्ति न वा? अस्ति चेत् ; संघातेऽपि कश्वोद्यावकाशः? न चेत; तत्तद्देशेषु चक्षुः प्रसरादिनिरोधकत्वं न स्यात् । अन्यथा अल्पदेशवर्तिनः सर्वत्र निरोधकत्वप्रसङ्गात् । अतः परस्परानाक्रान्तदेशावष्टम्भेन संहन्यमानेषु त्रसरेणुषु
आनन्ददायिनी प्रदेशभेदाश्च सर्वसिद्धा इत्याह-वेणुरन्ध्रेति । प्रत्यक्षेति-सिद्धान्ते प्रत्यक्ष त्वादिति भावः । प्रतिबन्द्या समाधत्ते--त्वयापीऽति । आकाशाप्रत्यक्षवादिनाऽपि माषावयवापेक्षया महीधरस्योपरिभागेऽधिकदेशत्वं ग्राह्यम् । तत्राकाशव्यतिरेकेणान्यस्याभावादिति भावः । आलोकस्यापीति आलो. कमण्डलान्तराभवादिति भावः । ननु माषापेक्षया महीधरस्योपरिभागे परिमाणाधिक्यमेव (दृश्यते) गृह्यते न देशाधिक्यमिति शङ्कतेपरिमाणाधिक्यमिति । न चेदिति-तत्तद्देशाधिकदेशकत्वाभावादितिभावः। ननु तत्तदधिकदेशकत्वाभावेऽपि तत्तद्देशे चक्षुःप्रवृत्तिनिरोधकत्वम स्त्वित्यत्राह–अन्यथेति । अविशेषादिति भावः । तथाचाव्यन्यनङ्गीका