________________
236
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापे संसर्गादेविशेषादवयविपरिषद्राशिवन्यादिवादः ॥ २१ ॥
सर्वार्थसिद्धिः सुग्रहमेव देशाधिक्यम् । देशस्तु आलोकादिर्यःकश्चिद्यथायोग्यमस्तु । अत एव * प्रधानाभावादणुषु स्थौल्यारोपोऽपि न स्यादिति चोद्यमपि निस्तीर्णम् । तथापि यदि संसृष्टास्तन्तव एव पटः; ततः तन्तुराशिमात्रेऽपि पटधीस्स्यात् इत्यत्राहसंसर्गादेरिति । न हि त्वयाऽपि तन्तुसंसर्गमानं पटस्यासमवायिकारणमिष्यते; तथा सति कुविन्दादिव्यापारनरपेक्ष्यप्रसङ्गात् । अतो यादृशात्संसर्गविशेषादवयवी तवोत्पद्यते तादृशसंसर्गविशेषविशिष्टास्तन्तवः पटः इति क्वातिप्रसङ्गः? आदि
___ आनन्ददायिनी रेऽप्यवयवसंघात एव न्यूनाधिकदेशत्वमित्युपसंहरति-अत इति । देशस्त्विति–तन्निर्धारण व्यर्थमित्यर्थः । अत एवेति—देशाधिक्यरूपप्रधानस्योपपादितत्वादित्यर्थः । ततः स्थूलधीबाधशङ्केति (२२६) मूलस्यायमर्थः-स्थूलधियो या बाधशङ्का—स्थूलधीः कुत्रापि नास्तीति या शकेति यावत् । सा ततः देशाधिक्यरूपस्थौल्यस्योपपादनान्नेति । कातिप्रसङ्ग इति- तन्तुराशिमात्रे पटधीप्रसङ्गो नास्तत्यिर्थः । ननु तन्तूनामेवावस्थायोगिनां पटत्वे पटस्तन्तुमानिति प्रयागो न स्यादित्य
भावप्रकाशः 1* प्रधानाभावादिति-मुख्याभावादित्यर्थः ।