________________
234
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
पपत्तेः । द्रव्येषु नैवमिति चेन्न ; द्व्यणुकोत्पत्तेः पूर्वक्षणे संयुक्ताद्वयस्य प्रत्येकदेशादधिकदेशत्वावश्यंभावात् । अन्यथा सर्वपरमाणूनां समानदेशत्वे प्रागुक्तदोषप्रसङ्गात् । द्व्यणुकान्तरपरिच्छिन्नस्स देश इति चेन्न ; सह वृत्त्ययोगात् । अन्यथा परिच्छेदासिद्धेः । समवायिनस्संयोगिनो वा देशस्याभावे कथं तत्र देशाधिक्यमिति चेन्न ; आकाशाद्यंशभेदेन तदुपपत्तेः । कथं आनन्ददाहिनी
[ जडद्रव्य
गन्धशब्दो द्रव्यपरः । तथा च गन्धत्वतारतम्यं — परिमलतारतम्यमित्यर्थः । द्वयणुकोत्पत्तेः पूर्वमिति — — देशविशेषापादकावयविनोऽभावादिति भावः । द्व्यणुकान्तर(रावच्छि) परिच्छिन्नेति — एतद्व्यणुकोत्पत्तेः पूर्वं द्वयणुकान्तरस्य सम्भवेन तस्य देशावच्छेदकत्वेन नानुपपत्तिरित्यर्थः । सह वृत्त्ययोगादिति–द्वयणुकान्तरावच्छिन्नप्रदेशे परमाणुद्वयस्य सप्रतिघत्वविरोधात्सहवृत्त्ययोगादित्यर्थः । ननु सहवृत्तिर्मास्तु द्व्यणुकस्य देशतया तत्र वृत्त्यङ्गीकारे दोषाभावादिति चेत् सह वृत्त्ययोगादिति — परमाण्वन्तरेणापि सहवृत्त्ययोगादित्यर्थः । अन्यथेति तथाचैकपरमाणुदेश एव परमाण्वन्तरस्यापि वृत्तेः द्व्यणुकस्याप्यधिकदेशावच्छेदकत्वाभावादित्यर्थः । ननु न्यूनाधिकपरिमाणद्रव्यं देशः । स च संयोगी समवायी वा ? तदभावे कथं देशाधिक्यम् ? इति शङ्कते – समवायिन इति । आकाशेति - आकाशाद्यंशभेद इत्यर्थः । भावप्रकाशः
सिद्धान्ते काले व्यभिचारात् अप्रयोजकत्वाच्च । त्रुटेर्भेदनं न प्रत्यक्षम् । अत एवं तात्पर्यटीकायां ' अङ्गुल्यग्राभ्यां मृद्यमानस्यास्यादर्शन सूक्ष्मत्तयाऽप्युपपद्यते' इत्युक्तिस्सङ्गच्छते इति भावः । .