________________
सरः]
त्रिगुणपरीक्षायां सहव्यवादसाधने खमते दूषणपरिहारः
231
तत्वमुक्ताकलापः वस्त्रे दीर्धेकतन्तुभ्रमणविरचिते वस्तुधीर्नापि बाध्या।
सर्वार्थसिद्धिः संघातासिद्धरित्यत्राह-वस्त्र इति । न हि वयं तन्तुगतं एकत्वं द्वित्वबहुत्वादिकं वा पटधीनिवन्धनं नियच्छामः; यथादृष्टि (सर्व) संभवात् । त्वं तु स्वपक्षदोषमस्मत्पक्षस्थं (ब्रवीषि) मन्यसे । प्रदर्शितं हि पत्रे ताटङ्कनिष्पत्तौ एकस्यावयवस्यानारम्भकत्वम् । अतिप्रसङ्गोऽपि तथैव । स्यादेतत् ; अवयविनमनभ्युपगच्छतामन्ततः पर्वतादयोऽपि परमाणव एव संहताः स्युः। ते च न प्रत्यक्षाः। अतः 1' सर्वाग्रहणमवयव्यसिद्धेः' इत्यक्षपादोक्तमनतिक्रमणीयं स्यात् । स्थूलद्रव्याभावे च अणु
आनन्ददायिनी (द्रव्ये) ह्यनित्यताव्यवहारः स्वर्गिन्यायेन विशिष्टवेषेणत्यर्थः । यथादृष्टीतिसंयोगविशेषरूपावस्थाबलाद्व्यवहारः । तथा च तादृशावस्थाया अत्रापि सत्त्वात् पटव्यवहारादिसंभव इत्यर्थः । प्रत्युत तवैव तत्र पटबुद्धयाद्यनुपपत्तिरित्याह- त्वं त्विति । संयोगासंभवेन तव कारणाभावात् ; मम त्ववयवानामेव संयोगादिति भावः । ते च-परमाणवः । सर्वाग्रहणम्परमाणुवत् पर्वतादेरग्रहणम् । अतिरिक्तस्य प्रत्यक्षयोग्यस्यावयविनोऽ
भावप्रकाशः *सर्वाग्रहणमवयव्यसिद्धेः (२-१-३४) इति--' सर्वेषामर्थानामग्रहणं प्रसज्येत; यद्यवयव्यर्थान्तरभूतोऽवयूवेभ्यो नास्ति इति' न्याय