________________
[जडद्रव्य
230
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः नामणूनां च नित्यानामपि हेतुभेदैरवस्थान्तरापत्तिमङ्गीकरोषि । सर्वद्रव्यस्वरूपनित्यत्वं तदवस्थाभेदं च वदतामपि तथा किं न स्यात् ? *संयुक्तावस्थाऽपि हि परिणामः! कथं तर्हि नित्यानित्यविभागः? इत्थं; द्रव्यतदवस्थयोस्तथाभावादेव । द्रव्यविवक्षायां त्ववस्थाविशिष्टवेषेणानित्यव्यवहार इति । ननु तन्तव एव व्यतिषङ्गविशेषविशिष्टाः पट इति भवतां राद्धान्तः 'पटवच्च' इति सूत्रे दर्शितः; तथा सति दीर्धेकतन्तुपरिवर्तनविशेषनिष्पादितेऽवयविनि कथं पटबुद्धिस्स्यात् ? अनेकतन्तु
आनन्ददायिनी दिरूपविकारवत्त्वं अणूनामपि द्वयणुकसंयोगपाकजरूपादिविकारवत्त्वमङ्गीकरोषीत्यर्थः । तथेति-त्वदङ्गीकृतप्रकारेणेत्यर्थः । ननु परिणामो विकारः । सैवावस्था । नच नित्यानां सा अङ्गीकार्येत्यत्राह - संयुक्तावस्थाऽपीति । तद्वद्भवदभिमतासमवायिकारणसंयोगावस्थाऽपि न विरुद्धेत्यर्थः । ननु भवत्पक्षे नित्यस्यापि कार्यत्वान्नित्यानित्यव्यवस्था न स्यादित्याशङ्कते-कथं तीति । इत्थमिति–नामान्तरभजनावस्थाभावादेव नित्यत्वव्यवहार इत्यर्थः । द्रव्यविवक्षायामिति-द्रव्यस्य
भावप्रकाशः __*संयुक्ताऽवस्थाऽपि हीत्यादि-एतेन ‘अवस्थानिबन्धनैव कार्यतेति' 'न हि तन्तव आत्मानं कुर्वन्ति' इत्यादि वार्तिकोक्तदूषणमपास्तम् ॥