________________
232
सव्याख्नयसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः देशाधिक्यं समेतेष्वणुषु न हि ततः स्थूलधीबाध
शङ्का
सर्वार्थसिद्धिः संहतौ स्थूलत्वाध्यासोऽपि न सिध्यदिति; तत्राह-देशाधिक्यमिति । अयं भावः-स्थूलधीरिति अवयविधी; परिमाणविशेषधीर्वा प्रत्यक्षयोग्यत्वधीर्वा प्रत्येकदेशादधिकदेशत्वधी? नाद्यः; तदभावप्रसक्तेरिष्टप्रसङ्गात् । न द्वितीयः; संहते (तै) रेव अवयविवत् परिमाणान्तरस्य सृष्टयुपपत्तेः । अणुष्वेव कथं विरुद्धं स्थूलत्वं स्यादिति चेत् एकत्वाद्याश्रयेष्वेव कथं द्वित्वदिकमिच्छसि ? अपेक्षाबुद्धिसंगृहीतान्यानुबन्धसामर्थ्यादिति चेत् ।
__ आनन्ददाहिनी सिद्धेस्संघातस्याप्यणुवदग्राह्यत्वात् । स्थूलत्वाध्यासोऽपीति---आराप्यस्यान्यत्र सत्त्वनियमात् । तथा च सर्वसिद्धस्थूलधीः क्वचिदाप न स्यादिति भावः। ननु देशाधिक्यं वा कथं भवेत् ? भवतु वा आधिक्यम् ; तथाऽप्यणुभूतस्य स्थौल्यं प्रत्यक्षं वा कथं भवेदित्यत्राह-अयं भाव इति । तदभावप्रसक्तेरिति-अवयव्यभावापादनस्येत्यर्थः । एकत्वेतिनच 'अणोरणीयान् महतो महीयान् ' इत्यादिश्रुत्या ब्रह्मणि परपक्षवत् स्वाभाविकाणुत्वमहत्त्वप्रसङ्गः इति चेत् ; यथैकव्यक्तिगतैकत्वसमनियतं द्वित्वं विरुद्धं तथैकपरिमाणसमनियतं परिमाणान्तरं विरुद्धमिति व्याप्तेः; भगवति तन्महत्परिमाणसमनियततदणुत्वं विरुद्धमिति न तत्स्वाभा-, विकमिति ध्येयम् । अन्यानुबन्धः--व्यक्तयन्तरानुबन्धः-संबन्धः ।