________________
सरः]
त्रिगुणपरीक्षायां सहव्यवादसाधने कार्योपादानभेदबाधकम्
217
सर्वार्थसिद्धिः वा पटगुरुत्वं च संभूय पतनातिरेकं कथं न कुर्यात् ? तदकरणे कश्चिदपि हेतुर्न सिद्धयेदित्यर्थः। तथा हि-न तावदवविनि गुरुत्वं न जायते; परमाणुगुरुत्वपरिशेषप्रसङ्गात् ।
आनन्ददायिनी कारणगुणप्रक्रमेण । त्वाङ्गीकारादिति भावः । संभूय—संहत्य । न सिध्येदिति--- संभावनायां लिङ् । परमाणुगुरुत्वेति-द्वयणुकादीना
भावप्रकाशः इति वाच्च ; अन्यत्रावयविमात्रगतरूपादिगुणस्यैव प्रतीत्या भवन्मतेऽत्रावयवावयव्येतदुभयगतगुणप्रतीत्यङ्गीकारस्यानुचितत्वात् । तथासति अतिरिक्तमवयविनमनभ्युपगम्यावयवमानसमाहारगुणप्रतीतेस्सिद्धान्त्यभिमता - या एव सर्वत्राङ्गीकारस्य युक्तत्वात् । किरणावल्यामुदयनेनावयवापेक्षयाऽवयविनोऽधिकपरिमाणत्वनियमादित्युक्तया तद्रीत्या अधिकगुरुत्ववत्तानियमस्याभ्युपगन्तव्यत्वेन कार्यगुरुत्वावधारणस्य सामान्यतस्संभवाच्च । यद्यपि न्यायवार्तिके कार्यगुरुत्वेन कारणगुरुत्वस्य प्रतिबन्ध पक्ष एक एव “यदि कार्ये पतति कारणमवतिष्ठेत प्रतिपद्येमहि कार्यगुरुत्वेन कारणगुरुत्वं प्रतिबद्धमिति । न त्विदमस्ति । अतोऽयुक्तमेतत् । अनाधारत्वप्रसङ्गाच्च-कार्ये पतति न कारणं पतेदिति कार्यमनाधारं स्यात्' इति ग्रन्थेन दूषितः ; अथापि न्यायवार्तिके पूर्वं 'द्रव्यसमाहारगुरुत्वावधारणात् आचरमादा च परमाणोश्च द्रव्यसमाहार उन्मीयते' इत्युक्तयाऽवयवगुरुत्वप्रतीतेरङ्गीकारेणावयविगुरुत्वप्रतिबन्धपक्षोऽपि संभावित इति भावेन पक्षद्वयं दुदूषायेषुर्विकल्पयति