________________
218
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः तथा च त्वयाऽनभ्युपगमात् अयुक्तेश्च । कार्यगुरुत्वादेव ह्यणुगुरुत्वं कल्पयसि । जातस्य च न स्वभावतः पतनहेतुत्वाभावः । प्रतिवन्धात्कार्यानतिरेक इति चेत् ; * किमयं प्रतिबन्धोऽवयविगुरुत्वस्य, उतावयवगुरुत्वस्य ? नाद्यः; परमाणुगुरुत्वस्यैव पतनहेतुत्वप्रसङ्गात् । तथा सति गुरुत्वात्पतनं द्रवत्वात्स्यन्दनमिति तत्तत्क्रियावन्निष्ट गुरुत्वादिकल्पनाभङ्गापाता । अतोत्र वरमवयविनि गुरुत्वानुत्पत्तिकल्पनम् । तत्र चोक्तो दोषः। न द्वितीयः; * कदाचिनिष्कम्पेऽवयविनि शाखाफलहस्तादिल
आनन्ददायिनी मवयवित्वादिति भावः । इष्टापत्तिं निरस्यति-तथाचेत अयुक्तिमेवाह-कार्यगुरुत्वादेवेति । जातस्य चेति-कार्ये उत्पन्नस्य गुरुत्वस्येत्यर्थः । परमाणुगुरुत्वस्यैवेति-द्वयणुकादिगुरुत्वानामवयविगुरुत्वत्वादिति भावः । इष्टापत्तिं निरस्यति–तथा सतीति । ततो वरमितिगुरुत्वकार्याभावादिति भावः । इष्टापत्तौ बाधकमाह-तत्र चोक्तो दोष इति।
__ भावप्रकाशः 1*किमयं प्रतिबन्ध इत्यादिना ॥
*गुरुत्व दिकल्पनाभङ्ग त्यादि-स्वाश्रयसमवेतद्रव्यत्वसंबन्धेना व्यवगुरुत्वस्य कार्यद्रव्यपतनं प्रति हेतुत्वाङ्गीकारेण न्यायवार्तिकोक्तहपादिपतनापत्तिशङ्काया अनुन्मेषादिति भावः ॥ .
अवयवगुरुत्वप्रतिबन्धपक्षे न्यायवार्तिकोक्तदूषणद्वयं न लगतीत्यभेप्रेत्य पृथग्दूषयति * कदाचिदित्यादि ॥