________________
216
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः कार्योपादानभेदे न कथमधिकता गौरवादेः
सर्वार्थसिद्धिः वदतः प्रतिवक्ति–कार्येति । कार्यद्रव्यस्य स्वोपादानद्रव्या दे सति *'द्विपलिकैकपलिकन्यायेन तन्तुगुरुत्वं समं न्यनमधिकं
भावप्रकाशः इयत्कारणगुरुत्वमियत्कार्यगुरुत्वमिति । न च समाहारः कारणम् ; अपि तु अनारब्धकार्य चरमद्रव्यं कारणमिति, इति । 'द्रव्यसौहार इतिकार्यकारणद्रव्यसमाहारो मृत्कणमृचूर्णशर्कराकपालकुम्भसमाहार इत्यर्थः' इति तात्पर्यटीकायां वाचस्पतिः । एवं 'निरनुमानं तर्हि कार्यमुरुत्वम् .. यदि गुरुत्वान्तरवद्दव्योपचये सति कार्यभेदो न गृह्यते कथं प्रतिपद्येत ? इति । क एवमाह कार्यगुरुत्वं (कार्य) न गृह्यत इति ? यदि गृह्यते किं तत् ? पतनं । न हि कार्यगुरुत्वमन्तरेण कार्यपातेऽन्यो हेतुरस्ति । तस्माद्गुरुत्वान्तरवत्कायमिति । एतेन तुलावनतिविशेषान्न कार्यगौरवमिति प्रत्युक्तम् । अथ मन्यसे; कारणगुरुत्वेनैव कार्य पात्यते न कार्यगुरुत्वमस्ति ; अतः कार्यपातस्यान्यनिमित्तत्वान्न सिध्यति गुरुत्वान्तरवत्कार्यमिति ; न ; कार्यकारणयोरसंयोगात्' इत्यादिन्यायवार्तिकमपि । अस्मिंश्च संदर्भ कारणकार्यगुरुत्वेयत्तानवधारणेऽपि कारणगुरुत्वातिरिक्तकार्यगुरुत्वस्य कार्येऽङ्गीकारेण गुरुत्वाधिक्ये पतनाधिक्यस्यान्यत्र पटद्वयोन्मानस्थले दर्शनेन तद्वत्तन्तुतत्कार्यपटसमुदायोन्मानेऽपि पतनाधिक्यं न्यायवार्तिककारादिमते दुर्वारमेवेत्याह. *'द्विपलिकेत्यादिना । न च पटद्वयोन्माने द्रव्यसमाहारद्वयंगतगुरुत्वस्याक्धारणमेकपटोन्माने चैकसमाहारगुरुत्वस्योति न दोष