________________
सर:
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
207
तत्वमुक्ताकलापः प्रसङ्गाः ॥ १८॥
स्यानागानन्त्यसाम्ये परिभितिसमता सर्षपक्ष्मातोश्चेत् मैवं भागेष्वनन्तेष्वपि समधिकता
सर्वार्थसिद्धिः अणुषु स्वाभावसमानाधिकरणसंयोगसिद्धेरौपाधिकांशवत्त्वस्वीकारात् इष्टप्रसङ्गतां परिहर्तुमारम्भकशब्दः ॥१८॥
नन्वेवं सर्वत्रावयवानन्त्यप्रसङ्गे सर्षपमहीधरादिपरिमाणवैचित्रयं न स्यादिति शङ्कते--स्यादिति । प्रसञ्जकस्याप्रयो. जकत्वाभिप्रायेण प्रतिवक्ति-मैवमिति। आनन्त्यसाम्येऽप्यवयवानां न्यूनाधिकभावेन परिमाणवैषम्योपपत्तिमाह-भागेष्विति ।
आनन्ददायिनी संयुक्तविभुप्रतिबन्धाऽणुष्वव्याप्यवृत्तिसंयोगौपाधिकांशवत्त्वस्वीकारसंभवा देकदेशेन संयुज्यते उत नेत्यादिविकल्पमुखेन प्रवृत्तानामिष्टप्रसङ्गतामाशङ्कयारम्भकांशपदविशेषणेन परिहरतीत्याह-अणुष्विति । आरम्भकसंयोगानामवयवावच्छिन्नानामेव जनकत्वनियमादिति भावः । परमाणुस्स्सांशस्स्यात् आरम्भकत्वात् परमाणुरनौपाधिकदेशेन संयो. गवान् स्यादारम्भकसंयोगवत्त्वादित्यादिप्रयोगो द्रष्टव्यः ॥ १८ ॥
मुखान्तरेणानवस्थापरिहारेण निरवयवपरमाणुसाधनमाशङ्कय परि हरतीत्याह-नन्वेवमिति । आक्षेपसङ्गतिर्बोध्या ।