SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 206 ___ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः नो चेदारम्भकांशप्रभृतिषु नियता दुर्निवाराः सर्वार्थसिद्धिः *अत एव मूर्तत्वे सति महत्त्वात्रसेरणुः कार्यद्रव्यारब्ध इति कल्पनापि निरस्ता। अस्तु बाह्येन्द्रियग्राह्यत्वादेतत्साध्यमिति ? न। विपक्षे बाधकाभावात् । अन्यथा त्रसरेण्वारम्भकस्यापि कार्यद्रव्यारब्धत्वकल्पनायां निवारकाभावात् । तत्र विपक्षे बाधकं नास्तीति चेत् । अत्रापि तथेत्युक्तमेव । अतो न द्वयणुकमित्यपि किञ्चित् । एवमारम्भकपरम्परायास्सावयवत्वं तद्व्यापकतयाऽभिमतमनित्यत्त्वं कुतश्चिन्महत्त्वं च प्रसज्यमानमनिवारणीयं स्यात् । एतत्सर्वमाभिप्रेत्याह - नो चेदिति । आनन्ददायिनी प्रत्यक्षत्वमित्यर्थः । तथाच महत्त्वोत्कर्षस्य चाक्षुषप्रत्यक्षोत्कर्षप्रयोजकत्वेशप न चाक्षुषप्रत्यक्षमात्रहेतुत्वमिति भावः । अत एवेति-त्रसरेणोः परमाणुत्वादित्यर्थः । तथाच स्वरूपासिद्धिरिति भावः । एतत्साध्यं -- कार्यद्रव्यावस्थत्वरूपं साध्यं । त्रसरेण्वारम्भकस्येति । घ्यणुकस्येत्यर्थः । व्याप्तिरविशेषादित्याह-निवारकाभावादिति । इष्टापत्तिमाशङ्कय नित्यनिरवयवाणुत्वसिद्धिर्न स्यादित्याह-एवमारम्भकेति। भावप्रकाशः 1* अत एव - अप्रयोजकत्वादेव । . . . . सिद्धान्त च प्रकृतेर्निरंशत्वे सांशत्वे वा न कोऽपि दोष इति न्यायसिद्धाञ्जने व्यक्तम् ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy