________________
जडद्रव्य
208
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः स्थौल्यहेतुगिरेः स्यात्। व्यक्तयानन्त्ये ऽपि जात्योः
सर्वार्थसिद्धिः एतच्चोत्तरमनन्तभागाभ्युपगन्तृणां तत्प्रसञ्जकानां च समानम् ।
अण्वंशानामनन्तत्वे गन्तृणां तदतिक्रमः । कदापि न स्यात् , किं न स्यात् वेगातिशयवैभवात् ? ॥ द्युमणेरातपस्सनुदयादिशिखामणेः।
तत्क्षणं किं न नि ति पश्चिमादिशिखण्डकः? ॥ आनन्त्याविशेषे कथं न्यूनाधिकभावः? इत्यत्राह ---व्यक्तीति । सत्ताप्रभृति घटत्वादिपर्यन्तानां सर्वासां जातीनां त्रैकालिका
आनन्ददायिनी एतच्चोत्तरमिति । अधिकावयवारब्धत्वं न्यूनावयवारब्धत्वं च परिमाणतारतम्यप्रयोजकमित्युत्तरमित्यर्थः । अनवस्थया अनन्तभागाभ्युपगन्त्रणां तत्प्रसञ्जकानां क्वचिदवयवारब्धत्वमनभ्युपेत्य नित्यपरमाणुवादिनां नैयायिकानां च समानमित्याह-अनन्तभागेति । प्रकारान्तरेण परमाणुसाधनमाशङ्कय निराकरोति-अण्वंशानामिति । तदतिक्रमः-अण्वतिक्रमः । न स्यादिति--अनन्तावयवत्वेन परमाणोरपि गगनादिवदनन्तत्वादतिक्रमणं न स्यादित्यर्थः । घटादीनामतिक्रमो न स्यादित्येतत्कैमुत्यन्यायसिद्धमिति. द्रष्टव्यं । परिहरति-किं न स्यादिति । स्यादेवेति भावः । तत्र हेतुःवेगांतिशयति । तत्र दृष्टान्तमाह-द्युमणेरिति । सर्पन्—गच्छन् । उदयादिशिखामणेः-उदयं गतस्य । पश्चिमादिशिखण्डकः-पश्चिमादिशिखरगतः।
-