________________
202
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
भावप्रकाश अंशा अप्यणुभेदेन सोऽप्यणुर्दिग्विभागतः ।
दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः ॥ इति (बों. पं. ९-८७) कारिकाविवरणे प्रज्ञाकरमंतिना एतत्कारिकोदाहरणं संगच्छते । एतेन संयोगोपपत्तेश्च (४-२-२४) इति सूत्रे वाचस्पतिना (न्या.वा.ता.टी) "द्रव्याणामेवात्र समवायेन समानदेशतां व्यासेधामो न तु संयोगेन । समवायेन हि समानदेशता स्थौल्यपरिपन्थिनी । यथा गन्धरसरूपस्पर्शास्समानदेशा न स्थौल्यमारभन्ते तत्कस्य हेतोः ? एषाममूर्तानां समानदेशसमवायात् । मूर्तास्तु स्पर्शवन्तस्समवायेनासमानदेशाः परस्परसंयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते ? तस्मात् संयोगेन समानदेशता न प्रतिषिध्यते । समवायेन तु प्रतिषिध्यते । सा हि स्थौल्यविरोधिनीति सिद्धम् " इति । दिग्देशभेदाश्च दिशसंयोगा इत्युपक्रम्य ' तस्मादेकस्यापि परमाणोः परमाण्वन्तरसंयोगा अव्याप्यवृत्तय एव भागाः । एवं दिशोऽप्येकस्या अपि संयोगा एव भागाः । सोऽयं परमाणोष्षट्केन युगपद्योगो मूर्तत्वमात्रप्रयुक्तो न सावयवत्वप्रयुक्त इति न सावयवत्वं गमयितुमर्हतीति । तेन यदुच्यते प्रसङ्गसाधनं परैः-'यन्निरवयं तन्न षटकेन संयुक्तं यथा विज्ञानं तथाच परमाणुरिति व्यापकविरुद्धोपलब्धिः” इति ; तन्निरस्तं । मूर्तत्वप्रयुक्तत्वेन षट्कसंयोगस्य सावयवत्वेन व्याप्तेरसिद्धेः । छायातपयोगोऽपि परमाणोरेकसंयोगस्याव्याप्यवृत्तित्वेनोपपन्नः” इति च यदुक्तं विंशतिकारिकोक्तदूषणपरिहरणं तत्परास्तं । माध्यमिकैः
नाणोरणौँ प्रवेशोऽस्ति निराकाशस्समश्च सः । अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः ॥ निरंशस्य च संसर्गः कथं नामोपपद्यते । ? संसर्गे च निरशत्वं यदि दृष्टं निदर्शय ॥ (बो-पं ९-९५-९६)