SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः 201 सर्वार्थसिद्धिः संबन्धव्यवस्थेति निरस्तं । तत्प्रदेशभेदस्यैव मृग्यमाणत्वात् । विभुद्रव्यमेव तत्तन्मूर्ततुल्यपरिमाणं जायत इति चेन्न ; विरोधादुक्तदोषानतिक्रमाच्च । काल्पनिकांशभेदेन मूर्तसंयोग इति चेत्तर्हि वस्तुतस्त्वखण्डेनेत्युक्तं स्यात् । अंशभेदकल्पना च किं विभुद्रव्यस्वरूपमात्रे उत तदंश एवेति दुस्तरो गर्तः । निरंशानामपि स्वभावत एव विभूनामनेकमूर्तसंयोगक्षमत्वमिति चेदणूनामप्येतदस्तु; अविशेषात् । *एवं त्रसरेणुप्रतिबन्दिश्च भाव्येति । *अत्रोच्यते-यदि वयं प्रदेशवर्तिगुणनिह्नवाय प्रव आनन्ददायिनी स्य प्रदेशेषु । तत्प्रदेशभेदस्यैवेति-उपाधिसमपरिमाणविभुप्रदेशस्यैवासिद्धरित्यर्थः । विरोधादिति—विभुनः कार्यत्वाभावात्तथात्वे विभुत्वव्याघातादित्यर्थः । उक्तदोषेति--तत्तुल्यपरिमाणमप्यंशभेदेन जायते उत न ? उपाधिना विच्छिन्नं न तत्तुल्यपरिमाणं जायते आवच्छिन्नं वा ? ' इत्यादि दोषानतिक्रमादित्यर्थः । तीति-कल्पानिकांशस्य वस्तुनः पारमार्थिकवस्तुनिर्वाहकत्वाभावादित्यर्थः । कल्पनापेक्षेऽप्युक्तदोषानिस्तार इत्याह-अंशभेदेति । सिद्धान्ते त्रसरेणून निरंशत्वात्तत्संयोगप्रतिबन्दिमप्याह-एवमिति । प्रदेशवर्तीति । प्रदेश भावप्रकाशः 1* एवं त्रसरेणुप्रतिबन्दिश्च भाव्येत्यनेन ‘संयोगस्तीत्यारभ्य सोऽपि न स्वांशाभ्यां वर्तते' इति पूर्वग्रन्थार्थ आक्षिप्तः । ___2* अत्रोच्यत इत्यादि-अत्र न्यायसिद्धाञ्जने षट्केनेत्याधुक्तदूषणं माध्यमिकैरेवोद्भावनीयं नान्यरित्ययमर्थ उपपादितः । अत एव
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy