________________
200
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जिडद्रव्य
सर्वार्थसिद्धिः कात्स्वर्थेन विभुद्रव्यमेकेन स्पर्शवता संयुज्यते. कथं स्पर्शवदन्तरेण तस्य संयोगस्स्यात् ? अंशतश्चेत् सावयवत्वप्रसङ्गः । न हि विभुद्रव्यस्यावयवित्वं सङ्घातत्वं वा सुवचं; पूर्वत्र स्पर्शवत्त्ववृत्तत्वकार्यत्वानित्यत्वादिप्रसङ्गात् । उत्तरत्र नानात्वभेदाभेदयोरन्यतरापातात् । तत्र च विभुद्रव्यांशानां मिथस्संयोगोस्ति न वा ? अस्ति चेत् । तत्रापि स एव प्रसङ्गः । नास्ति चेत् ; असंहतरूपता स्यात् । औपाधिको विभूनामंशभेद इति चेन्न; उपाधिसंयोगेऽप्यंशादिविकल्पानपायात् । निरंशेऽपि संयुज्यमानं स्वरूपेण तद्भदोपाधिरिति चेन ; स भेद उपाधिना छिन्ने चेदवयवविश्लेषात्मा स्यात् । अच्छिन्ने तु भेदाभेदवाद एव शरणं । अत एव स्वसमानपरिमाणेषु विभुप्रदेशेषु तत्तदुपाधि
आनन्ददायिनी कर्मसत्वेऽपि विभुषु संयोगो नोत्पद्यते तदा तत्र व्यभिचारादन्यतरकर्म न संयोगकारणमिति कुत्रापि ततस्संयोगो न स्यादित्यर्थः । कथमिति-सप्रतिघत्वविरोधादित्यर्थः । इष्टापत्तिं निराचष्टे-न(हि) च विभुद्रव्यस्येति । अवयवित्वावयवसङ्घातत्वे मतभेदेन । उत्तरवेति-नानात्वाङ्गीकारे एकस्यैव सङ्घातत्वार्थ भेदाङ्गीकारे भेदाभेदप्रसङ्ग इत्यर्थः । अंशभेदमङ्गीकृत्याह-तत्र चेति । विभुद्रव्यस्यांशवत्त्व इत्यर्थः । स एवेति-स्वांशभेदेन संयुज्यते न वेत्यादिप्रसङ्ग इत्यर्थः । असंहतरूपता स्यादिति- एक वस्तु विभुद्रव्यं न स्यादित्यर्थः । अच्छिन्ने-अखण्डिते । भेदाभेदेति अखण्डितस्याभिन्नत्वादिति भावः । स्वसमानपरिमागेषु-उपाधिसमपरिमाणेषु । विभुप्रदेशेषु-- विभुद्रव्य