________________
सरः
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
199
सर्वार्थसिद्धिः निरूढं । अवयव्यारम्भकसंयोगस्तु त्वयाऽपि न क्वचिदंशनिरपेक्ष उक्तः । क्वचिद्विशेषाङ्गीकारे नियामकाभावः । अथ सङ्घातारम्भकसंयोगेऽपि समः प्रसङ्ग इति ; न समः; संयोगसाध्यसङ्घाताभावात् । तत्स्वीकारे हवयविवाद एव परं । संयोगस्तह्यर्थेकोऽनेकवृत्तिस्सन् अंशानंशविकल्पदौस्थ्यं नातिकामेत् । न ह्यसौ नास्त्येव ; सिद्धयोः साध्यतया दृष्टेरिति । तदपि न3; विषयित्ववनिस्तारात् । सोऽपि हि द्वयोर्न स्वांशाभ्यां वर्तत इति दृश्यते । एवं स्वामित्वादयोऽपि न प्रतिबन्दिः। अस्तु तर्हि संयुक्तप्रतिबन्दिः; मूतैर्विभूनां संयोगोऽस्ति वा न वा? नचेदन्यतरकर्मजसंयोगलोपः अविशेषात् । अस्ति चेत् । यदि
आनन्ददायिनी निरूढमिति-उपपन्नमित्यर्थः । अवयव्येति-परमाणुव्यतिरिक्तस्थल इति शेषः । ननु परमाण्वारब्धस्सङ्घात इत्यङ्गीकारेऽपि तत्रोक्तविकल्पदोषस्स्यादिति प्रतिबन्दिमाशङ्कते-अथेति । परिहरतिन सम इति-संयोगस्यैव सङ्घातत्वादिति भावः । ननु निरंशस्संयोग उभयवृत्तिरङ्गीक्रियते । तत्र स्वांशेन वर्तते उत कात्स्येन ? नान्त्यः; एकत्र वृत्तावन्यत्राभावप्रसङ्गात् .। न प्रथमः ; अंशाभावा दिति प्रतिबन्दी शङ्कते-संयोगस्तीति । सिद्धयोरिति-इदं वस्तुद्वयं दूरस्थं मया संयुक्तमिति सिद्धयोर्वस्तुनोः साध्यतयाजन्यतया संयोगस्य दर्शनादित्यर्थः । यथादर्शनमङ्गीकारादुभयवृत्तिताया नानुपपत्तिरित्याह-तदपि नेति । तदवोपपादयति-सोऽपीतिसंयोगोऽपीत्यर्थः । दासत्वादिरादिशब्दार्थः । न प्रतिबन्दिः-न प्रतिबन्दियोग्य इत्यर्थः । अविशेषादिति-यदा पक्ष्यादेरन्यतरस्य