________________
198
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः बुद्धेस्त्वंशानपेक्षा स्फुरति विषयिता
सर्वार्थसिद्धिः अणुष्वपि तथा स्यात् । तत्राह-बुद्धस्त्विति । तुः शङ्कानिवृत्त्यर्थः । विषयित्वं ह्यशानपेक्ष(त)यैव दृष्टं । न ह्यन्यतोऽपि तस्यान्यथा दृष्टिः । अतो यथोपलम्भमेकवदनेकोऽपि विषय एकस्या बुद्धेः । एवमेकस्य निरंशस्यानेकबुद्धिविषयत्वमपि
आनन्ददायिनी संविदोऽप्युपयुक्तत्वादिति भावः । उल्लेखो—विषयीकरणं । अंशानपेक्षयेत्यत्र अंशस्यापेक्षा न विद्यते यस्येति गमकत्वात्समास इति ध्येयम् । न ह्यन्यत इति-उपाध्यधीनांशभेदक्लप्त्या वा बुद्धेविषयता दृष्टा नेत्यर्थः । यथोपलम्भमिति–एकविषयत्ववदनेकविषयत्वस्यापि दर्शनानुसारादुपपत्तिः ; वस्तुव्यवस्थाया उपलम्भानुसारित्वादित्यर्थः ।
भावप्रकाशः सह जन्म (यस्य) तस्य दर्शनमेकसामग्रीप्रतिबद्धत्वात् प्रतीत्यसमुत्पादस्याचिन्त्यत्वाच्च । न तु परमार्थतो दर्शनमस्ति ; येनैवं दृष्टादिव्यवहारः । वेदना तेन नेक्ष्यते--येन दृष्टसुखसाधनादिव्यवहारोऽप्यन्यत एव तेन कारणेन वेदना नेक्ष्यते--न च दृश्यते वस्तुतः इति । ज्ञानार्थयोः परमार्थतो निराकारयोः । संसर्गज अकार इति बुद्धिसरे संसर्गाद्वोध्यबुद्धयोः (२८) इति श्लोके वक्ष्यमाणः पक्षो माध्यमिकामिमत इति प्रतिभाति ॥