________________
सरः] त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
203 M
सर्वार्थसिद्धिः त्यामः तदा विभुप्रतिबन्धा अणुष्वपि तत्संभवः प्रदर्येत । किंत्ववयव्यारम्भकाणामवयवैरेव संयोग इति नियमस्य त्व
आनन्ददायिनी वर्तिसंयोगापहवायेत्यर्थः । विभुप्रतिबन्येति । यद्यपि विभूनां तन्नयूनपरिमाणसंयोगः स्वाश्रयभूतन्यूनपरिमाणद्रव्याभावे न संभवति आश्रयरहितप्रदेशे संयोगासंभवात् । यद्येकाश्रयसत्त्वमात्रात् प्रतियोग्यन्तराभावप्रदेशेऽप्याश्रयान्तरे संयोगस्स्यात् तथा सति प्रदेशान्तरवर्तिवह्निना पटस्य कात्स्र्थेन संयोगस्स्यात् अविशेषादिति कृत्स्नपटदाहनकदेशेन पटदाहः कुत्रापि न स्यादिति युक्तमाकाशादावव्याप्यवृत्तिसंयोगवत्त्वं । परमाणौ तु तन्नयूनपरिमाणप्रतियोग्यन्तरा भावान्नाव्याप्यवृत्तिसंयोगसंभवः; तथाऽप्यभ्युपगम्यैतदुक्तमिति द्रष्टव्यं । तत्संभवः --अव्याष्यवृत्तिगुणसंभवः । अवयव्यारम्भकाणामिति ।
भावप्रकाशः इत्यनेन षट्केनेत्याधुक्तार्थदृढीकरणात् । अत्रैव पूर्व अतस्सर्वदिगुपाधिसंयोगानां परमाणुषु पृथक्प्रदेशरहितानां कथमोपाधिकभागभेदापादकत्वमित्याद्युक्तदूषणानुद्धाराच्च । सिद्धान्ते निरंशसंयोगः " श्रुतेस्तु शब्दमूलत्वात् ' इति सूत्रेण व्यवस्थापितः । त्रसरेण्वंशानामदर्शनेन तेषां निरवयवतया तत्संयोगस्सर्वजनप्रत्यक्षविषय इति — संसर्गे च निरंशत्वं' इत्याद्युक्तदोषस्य न प्रसर इति ; .
__संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय । इति माध्यमिकोक्तौ 'यदि दृष्टं' इति भागमवलम्ब्यैव 'महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् " इति (२-२) सूत्रभाष्योक्तदूषणं संगमयति-किन्त्वित्यादिना।