________________
188
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः दिक्संयोगैकदेश्यान्नघटत इह ते दिकृतोऽप्यं शभेद:
सर्वार्थसिद्धिः न खल्ववयवास्पृष्टे कुत्रचित्प्रदेशे अवयवी तिष्ठेत् ? अदृष्टेरनिऐश्च । अवयवनाशादवयविनाशे क्षणमनाधारोऽवयवीति चेत् ; तथा कल्पयतापि त्वया पूर्व तन्तुसङ्घानवच्छिन्नप्रदेशे पटस्य वृत्तिर्न कल्पिता। एवमधिकारम्भानुपपत्तौ मेरुसपपादिविचित्रभेदासिद्धिः। सेयमसिद्धं सिषाधयिषतस्सिद्धहानिः। तथाचासिद्धसाधनं निर्मूलम् । ननु परिमितानां सर्वेषां दिग्भेदेन भागभेदे दृष्टे परमाणुष्वपि तथाऽङ्गीकारो दुर्वार इत्यत्राह-दि
संयोगेति । दिक्संयोगायत्तोऽपि हि भागभेदस्सावयवेप्वेव दृष्टः । त्रसरेणोरपि त्वया सावयवत्वक्लप्तेः । निरवयवेषु तु विश्वव्याप्त
आनन्ददायिनी न खल्विति । तथात्वे घटादेरपि परमाणुतारतम्यं नियामकाभावान्न स्यात् । सर्वकार्यद्रव्यस्यापि विभुत्वं च स्यादिति भावः । नन्ववयवं विनाऽप्यवयवी तिष्ठत्येव विनश्यदवस्थायां ; तथाचावयवाभावप्रदेशेऽप्यविनश्यन्नपि तिष्ठ(ति)तु ; अतिप्रसङ्गस्तु यथाकथञ्चिन्नेय इत्याशङ्कय समाधत्ते--अवयवनाशादिति । अन्यथा विन्ध्यभागेऽवयवनाशे हिमवद्भागेऽवयविनाशप्रसङ्गादिति भावः । सेयमित्यादि-असिद्धं परमाणुं तदपेक्षयाऽधिकपारमाणे यणुकं च साधयतः विचित्रपारिमाणत्वेन सिद्धस्य मेरुसर्षपादेस्सिद्धिर्न स्यादित्यर्थः । निमूलं-निष्प्रमाणकमित्यर्थः । ननु घटस्य पारमितम्य पूर्वो भागः दक्षिणो भागः पश्चिममुत्तरमू
मित्यादिदिगधीनो भेदो दृष्ट इति परमाणुष्वपि तत्कृतभागक्लसिरस्त्वित्याशङ्कते-नन्विति । दिक्संयोगेति--संयोगभेदादेव भागक्लप्तिः