________________
रसः]
त्रिगुणपरीक्षायां परमाणुकारणवाद निरासः
187
सर्वार्थसिद्धिः मेयेषु तु यथादृष्टान्तं सिद्धिः। अन्यथा अतिप्रसङ्गात् । ततश्चावयविवादिनामवयवास्स्वभागैमिथस्संयुज्य अवयविनमारभन्त इति सिद्धान्तः। एतच्च घणुकावधि निर्विघातम् । यणुकारम्भे तु निरवयवा अणवोऽवयवा इति कल्पितम् । तत्रैवं प्रसङ्गावतारः-यदि परमाणवस्स्वांशतस्संयुज्यावयविनमारभेरन् तदा तदंशोऽवयवरूपस्तदन्यो वा? आये तस्यापि तथेत्यनवस्था । अन्यस्तु स्वाभाविक औपाधिको वा? पूर्वत्र भिन्नाभिन्नता स्यात् । उत्तरत्रोपाधिसबन्धेऽप्यंशभेदो दुर्वचः। परिशेषात्तनिरपेक्षसंयोगैरन्योन्यानाघ्रातभागभेदरहितैरणुभिरारम्भस्स्यात् ; त्यक्तस्तर्हि सप्रतिषत्वाविरोधः। सर्वेषु च परमाणुष्वेकपरमाणुप्रदेशमात्रावस्थितेषु स्वाधिकदेशव्यापिकार्यारम्भो न स्यात् ।
आनन्ददायिनी अतिप्र ङ्गादिति । धूमादिना नित्यवह्रिसिद्धिप्रसङ्गादित्यर्थः । एतच्चेतिसिद्धान्त इत्येतदित्यर्थः । तदन्यो वेति विकल्पं विकल्पयति—अन्य. स्त्विति । स्वाभाविक इति । तद्दव्यस्वरूपमेवांश इत्यर्थः । स्वभावेन स्वरूपेणागतं संजातं वा। स्वार्थिको वा। स्वरूपमेवांशांशिभावापन्नमित्यर्थः । उत्तरति-उपाघिसंबन्ध एवांशांशिभावं भजत इति भावः । नन्वंशाभावेऽपि स्वरूपेण संयुक्ताः परमाणव आरम्भका भवन्त्वित्यत्राह-परिशेषादिति । अन्योन्यानाघ्रातेतिअन्योन्यासंयुक्तांशरहितैः--कृत्स्नसंयुक्तरित्यर्थः । त्यक्त इति--एकपरमाण्ववष्टब्धेप्रदेश परस्या (परेणा) प्यवष्टम्भस्य वक्तव्यतया स्पर्शवहृव्यस्य सप्रतिघत्वनियमत्यागप्रसङ्गः; अन्यथा सर्वव्यापिसंयोगासंभवादित्यर्थः । दूषणान्तरमाह-सर्वोष्वति । तदेवोपपादयति