SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 186 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे तत्वमुक्ताकलापः [जडद्रव्य कार्य नैवारभेरन् समधिकमणवस्सर्वतस्संप्रयुक्ताः सर्वार्थसिद्धिः भागानां चात्यन्तभेदो वेणुरन्ध्र श्लोके भाष्यत । एवं सत्यणुसमूह एव प्रकृतिरिति स्थिते; 'महद्दीर्घवद्या ह्रस्वपरिमण्डलाभ्याम्' इति औलूक्योपालम्भो न युक्त इत्यत्राह –— कार्यमिति अयं भावः-अनन्यपरशास्त्रसिद्धेष्वर्थेषु 'श्रुतेस्तु शब्दमूलत्वात्' इति न्यायेन गत्यन्तराभावे काचिद्गमनिका स्वीकार्या । अनु आनन्ददायिनी अभाप्यतेति—प्रथमसूत्रभाष्ये महासिद्धान्ते अभेदव्यापिनो वायोः वेणुरन्ध्रभेदेनांशभेदोऽभ्यधायि इति भावः । महद्दीर्घवद्वेति । ह्रस्वपरिमण्डलाभ्यां—द्व्यणुकपरमाणुभ्यां महद्दीर्घवत् व्यणुकञ्यणुकोत्पत्त्यनुपपत्तिवत् तदुक्तप्रक्रियान्तरमप्यनुपपन्नमिति सूत्रार्थः । ननु पृथक्कार्यारम्भाद्यनुपपत्तिः सिद्धान्तेऽपि समेत्यत आह- अयं भाव इति । यागस्य स्वर्गसाधनताबोधकश्रुतिबलाददृष्टकल्पनावादित्याहुः । श्रुतेस्त्वितिजगत्प्रति ब्रह्मणः कात्स्त्रर्येन काणत्वमेकदेशेन वेति विकल्पे ' कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा' इति सूत्रेण पूर्वपक्षं कृत्वा समाहितं श्रुतेस्तु शब्दमूलत्वात्' इति । श्रुतेः - श्रुतिप्रामाण्यस्य सत्त्वान्नोक्तदोषः ; कुतः ? शब्दमूलत्वात् — इतरविसजातीयतया शब्दवेद्ये लोकदृष्टव्याप्तयभावादित्यर्थः । अनुमानेन तु दृष्टसजातीयमेव साधनीयं न विजातीयं व्याप्तयभावादिति भावः । 6
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy