________________
सर:]
त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
185
सर्वार्थसिद्धिः अभाष्यत च 'त्रिवृत्करणं पञ्चीकरणप्रदर्शनम्' इति ॥१७॥
इति त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
ननु पञ्चीकरणाभिधानात्पञ्चसु भूतेषु स्वतस्सभागत्वं व्यष्टिसमष्टिभावो भूतांशानां चात्यन्तभिन्नत्वं समानन्यायतया प्रकृतिपर्यन्तेषु तत्वान्तरेष्वपि तत्सर्वं सिद्धं । भूत
__ आनन्ददायिनी अभाष्यतेति । 'वैशेष्यात्तु तद्वादस्तद्वादः' 'व्यात्मकत्वात्तु ' इत्यादिसूत्रभाष्ये ।
“महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इति । क्षेत्रारम्भकद्रव्याणीत्यादिकमुक्त्वा प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धमिन्द्रियाश्रयभूतमिच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रमित्युक्तं भवतीति" गीताभाष्ये चोक्तमित्यर्थः । मूलश्लोकस्यायमर्थः-भूतानि द्वेधा भित्वा तत्र एकस्मिन् स्थित एव अपरमर्धं पुनश्चतुर्धा भिनत्ति । तैः पुनः भिन्नम्यार्धस्य भागैः स्थि(स्थापि) तेनार्धन संयोजनार्थ (तु) परमधू अनुकलयति-संपादयतीत्यर्थः ॥१७॥
इति त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
ननु परमाणुकारणत्वनिराकरणं प्रकरणे न सङ्गतमित्याक्षेपसङ्गतिमाह--ननु पञ्चीकरणाभिधानादिति । स्वतस्सभागत्वमिति—अन्यथा विभागकरणासंभवादिति भावः । भूतांशानामिति-भूतानामंशसंघातरूपत्वात्समष्टित्वं । अंशानां व्यष्टित्वं । समानन्यायतयेति-अन्यथा भूतानां सभागत्वं नानात्वं च न स्यादिति भावः । तत्सर्वं सिद्धमिति- सभागत्वादि सिद्धमित्यर्थः ।