________________
रसः
त्रिगुणपरीक्षायां परमाणुकारणवादनिरासः
189'
सर्वार्थसिद्धिः कदिक्तत्ववादिनस्ते तन्निबन्धना भागक्लप्तिरशक्या; तदुपाधिसंयोगात्तु स्यादपि; यदि तत्राप्यशानंशविकल्पक्षोभोतिलक्येत ; अतस्सर्वदिगुपाधिसंयोगानां परमाणुषु पृथक्प्रदेशरहितानां कथमौपाधिकभागभेदसाधकत्वम् ? यदिचानंशभेदेन संयुक्ता उपाधयः क्वचिद्भागभेदकाः तर्हि परमाणव एव तथा
__ आनन्ददायिनी कल्प्या ; नच संयोगभेदः, प्रतियोगिभेदाभावादिति भावः । ननु दिगुपाधीनां भिन्नत्वात्संयोगभेदस्स्यादित्यत्राह ---- तदुपाधीति । यदि तत्रापीति—परमाणवः स्वांशैरुपाधिभिः संयुज्यन्ते उपाधयो वा तथा तैस्संयुज्यन्ते उत स्वरूपेणेति विकल्पेन पूर्वदोषानतिवृत्तरिति भावः । दिगुपाधीनां परमाणुभिरेकदेशेन संयोगाभावे दोषमाह-अत इति । ननु स्वांशभेदेन विनाऽप्य (विना संसृज्यमाना उ)पाधयः स्वसंयोगिनि परमाणावंशभेदकल्पका भवन्तु इति चेत् ; मैवं ; तथा सति परमाणूनामेवांशभेदकल्पकत्वमस्तु कृतमुपाधिभिः ? तदङ्गीकारेऽपि तत्संयोगस्य परमाणौ व्याप्य (परमाणाव) विद्य। मानस्य अंशभेदक्लप्तावनुपयोगादित्याह-यदि चानंशभेदेनेति -
भावप्रकाशः दिति चेन्न ता एव ह्युपपत्तेः ' इति सूत्रे तच्छब्देन 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति श्रुत्युक्तानामपामभिधानात् । तासां यात्मकत्वं च त्रिवृत्करणश्रुत्यैव वाच्यं नान्यथा । एवं च सूत्रस्योपलक्षणत्वे त्रिवृत्करणश्रुतेरुपलक्षणत्वमकामेनापि स्वीकार्य । एतत्सर्वमभिप्रेत्यैवाद्वैतपरिभाषायां आचार्योक्तरीतिरादृता । अतस्त्रिवृत्करणपक्षपञ्चीकरण