________________
180
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः तुर्भिः। इत्थं पञ्चकृतस्तै नयति स जग तुरण्डादिकार्याण्यैदम्पर्य त्रिवृत्त्वश्रुतिरितरगिरामक्ष
सर्वार्थसिद्धिः अर्धानि यानि वायोस्तु व्योमतेजःपयोभुवाम् ।। इति । ततः पञ्चधा विभक्तानां भागानां पञ्चस्वर्धान्तरेषु योजनमिति परोक्तं निरस्तं । एवं पञ्चीकृतानां व्यष्टिकार्येषु विनियोगमाह--इत्थमिति । महदादिभिश्चेति भाव्यं ; 'महदाद्या विशेषान्ताः' इत्याद्युक्तेः । ननु 'हन्ताहमिमास्तिस्रो देवताः' इत्याद्यारभ्य 'तासां त्रिवृतन्त्रिवृतमेकैकां करवाणि 'त्रिवृतन्त्रिवृतमेकैकामकरोत्' इति '* त्रिवृत्करणे श्रुते पञ्चीकरणादिस्मृतिरन्यपरा स्यादित्यत्राह-ऐदम्पर्यमिति । तात्पर्यमि
___आनन्ददायिनी इति ध्ययं । पञ्चीकरणमपि सप्तीकरणोपलक्षणमित्याह-महदादिभिश्चेति।
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन् प्रजाम्स्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्षास्तु संप्राप्यैक्यमशेषतः ॥
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते । तत इति महदादिसंसर्गस्यापि प्रतिपादनादिति भावः। विशेषाः-स्थूलभूतानि। ऐदम्पयमिति ; पञ्चीकरण इति शेषः ।
भावप्रकाशः * त्रिवृत्करणे श्रुते इति ‘त्र्यात्मकत्वात्तु भूयस्त्वात्' इति सूत्रे