________________
सरः
त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
181
तत्वमुक्ताकलापः मैका निरोद्धम् ॥ १७ ॥
सर्वार्थसिद्धिः त्यर्थः । अत्र'*अनन्यपराणां *भूयसां च बलीयस्त्वं ;
आनन्ददायिनी अनन्यपराणामिति-यद्यपि श्रुतिस्मृत्योर्विरोधे भूयसीनामपि स्मृतीनां बाध एव; तथाप्यबाधेनोपपत्तौ बाधस्यान्याय्यत्वादन्यतरस्यान्यतरानुसारे वाच्ये अविरोधेन वक्तुं च शक्येऽनन्यपरस्मृत्यनुसारो युक्तः ; तथा हि श्रुत्यर्थस्य वाच्यस्य त्रिवृत्करणस्य सहस्र शतन्यायेन संभवाद्वयवच्छेदस्तु संख्याश्रवणकल्प्यः । स च श्रुतिमूलोऽपि भूयसां स्यादिति न्यायेन बाधित
भावप्रकाशः (३-१-२) त्रिवृत्करण एव व्यासतात्पर्यमिति व्यक्तम् ॥
* अनन्यपराणामित्यनेन अनन्यथासिद्धनान्यथासिद्धं बाध्यमित्यनुगत एव बाध्यबाधकभाव इति सूचितं । अन्यपरत्वे प्रयोजकं दर्शयति-भूयसां चेति । यथाऽऽह भूयस्त्वस्य बाधकताप्रयोजकत्वं पूर्वतन्त्रे जैमिनिः ‘विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम्' (१२-२-२४) इति । अत्र सूत्रे श्रुतिलिङ्गमात्रबोधकं पदं किमपि
नास्ति । विप्रतिषिद्धधर्मपदं च श्रुतिस्मृतिसाधारणं । अत एव - विरोधाधिकरणे वार्तिककृता
श्रुतिलिङ्गे यथाचेष्टे व्यवस्थितबलाबले ।
सन्निकृष्टविकृष्टार्थे तथैवेह श्रुतिस्मृती ।। - इति श्रुतिस्मृत्योः श्रुतिलिङ्गतुल्यबलाबलत्वोक्तिस्संगच्छते । स्मृत्यनु