________________
सर:]
त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्टानेन कार्यकरत्वम्
179
तत्वमुक्ताकलापः द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्वमधैं च
सर्वार्थसिद्धिः व्यनक्ति-द्वधेति । स खल्वादिकर्ता स्वसृष्टानि '*पञ्च भूतानि द्विधा कृत्वा ऐकैकं भागं स्थापयित्वा अर्धान्तराणि चतुर्धा विभज्य तत्तद्भागश्चतुर्भिर्भूतान्तराणामविभक्तान्यर्धान्तराण्यनुकलयति । यथोक्तम्
*एवं जातेषु भूतानि प्रत्येकं स्युर्द्विधा ततः। चतुर्धा भिन्नमेकैकं अर्धमधु ततः स्थितम् । व्योम्नोऽर्धभागाश्चत्वारो वायुतेजःपयोभुवाम् ॥
आनन्ददायिनी यद्यपि पञ्चधा विभागस्सिद्धान्तेऽपि ; तथापि एकस्य भूतस्य समतया न पञ्चधा विभागः । अपि तु द्विधा विभागे तत्रैको भागश्चतुर्धा विभज्यते
___भावप्रकाशः 1*पञ्च भूतानीति-अत्र 'पञ्च तन्मात्रा भूतशब्देनोच्यन्ते पञ्च महाभूतानि भूतशब्देनोच्यन्ते' इति मैत्रायणीयश्रुत्या भूतशब्दस्य तन्मात्रसाधारण्येऽपि । त्रिवृत्करणश्रुतिस्मृत्यनुरोधान्महाभूतान्येवभूतशब्देनोच्यन्ते । परमतभङ्गे–'तन्मात्रेषु पञ्चीकरणं पञ्चीकृतांशा आकाशादयइत्युक्तिः तत्वपरिगणनपरश्रुतिस्मृतिपुराणादेरननुगुणा' इति सूक्तिरिह भाव्या । तन्मात्राणां न पञ्चीकरणं किन्तु व्योमादिभूतानामेवेत्यत्र मानमाह.-*एवं जातेष्वित्यादिना ॥
12*