________________
सरः]
त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्टानेन कार्यकरत्वम्
177
तत्वमुक्ताकलापः . इशरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरूपः। तेजोऽबन्नाभिधेये बहुभवनमभि
सर्वार्थसिद्धिः देश्वार्थमाह तत्तदिति । अन्तर्यामिब्राह्मणसुबालोपनिषदादिप्रसिद्धिमपि संवादयति-तदसाविति । विश्रुतः-प्रधानपुरुषविलक्षणत्वेन विश्वशरीरकतया प्रत्यक्षश्रुतिसिद्धः । क्वचिद्विश्वरूपशब्देनापि । 'तत्तेज ऐक्षत' 'बहु स्यां' 'ता आप ऐक्षन्त' 'बह्वयस्स्याम' इति वाक्यविशेषाभिप्रेतं तद्वयनक्तितेज इति । न ह्यचेतनमात्रस्य अनुत्पन्नकरणकळेबरस्य कर्मिणो वा तदानीं बहुभवनसंकल्पाश्रयत्वं युक्तं ; गौणत्वं चात्रापि ‘गौणश्चेन्नात्मशब्दात्' इति सूत्रन्यायन निरस्तम् ।
आनन्ददायिनी इति शरीरत्वोक्तिरिति भावः-अन्तर्यामीति । ' यस्य पृथिवी शरीरं यस्यापश्शरीरम् ' इत्यादिनाऽन्तर्यामिब्राह्मणादिषु शरीरत्वोक्तरित्यर्थः । क्वचिद्विश्वरूपेति-'विश्वात्मन्' 'विश्वरूपाय वै नमः'। सर्वात्मन् ' 'विश्वरूप' इत्यादावित्यर्थः । एवं तेज ऐक्षत आप ऐक्षन्त इत्यादिश्रुत्या बाध इत्याहतत्तेज ऐक्षतेत्यादि । तथा च चेतनाधिष्ठिता प्रकृतिः कारणमिति भावः । नन्वत्रेश्वराधिष्ठितत्वं न प्रतीयत इत्यत्राह-अभिप्रेतमिति । ननु प्रकृतेरचेतनायास्सङ्कल्पाश्रयत्वाभावेऽपि जीवस्य सम्भवाजीवस्स्रष्टाऽस्त्वित्यत्राह-अनुत्पन्नकरणकळेबरस्येति । नन्वैक्षतेतीक्षणं प्रवृत्तिमात्रं । तच्चाचेतनायाः प्रकृतेः सम्भवतीत्युक्तमित्यत्राह-गौणत्वं चेति SARVARTHA.
112
TARA