________________
176
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः हुलतयाऽप्यत्र तज्ज्ञैरुदासि ॥ १५ ॥
निश्शेष कार्यतत्वं जनयति स परो हेतुतत्वै
सर्वार्थसिद्धिः पक्रान्तेषु प्रकृत्यादिकारणेषु
पुरुषार्थ एव हेतुः न केनचित्कार्यते करणम् ॥ इति वदतस्साङ्ख्यत्य अनन्यथासिद्भश्श्रुत्यादिभिर्वाधमाह-निश्शेषमिति । 'यत्किञ्चित्सृज्यते येन' 'जगत्सर्वं शरीरं ते' इत्यादिभिरेतत्सिद्धम् । एतत्सृष्ट्वा तदेवानुप्राविशत्' इत्या
आनन्ददायिनी उत्तरपद्येन तत्वानामीश्वरमित्रताकथनस्य का सेङ्गतिः ? विवादाभावेन व्यर्थं चेत्यत्राह-प्रशान्तति । प्रसङ्ग एव सङ्गतिर्विवादश्चास्तीति भावः । सांख्यपद्यं पठति-पुरुषार्थ इति । करणं चक्षुरादिकं सर्वं तत्वजातं केनचिदधिष्ठात्रा न कार्यते। कथं तर्हि तेषां प्रवृत्तिः ? पुरुषार्थ एव हेतुः-स्वर्गापवर्गलक्षणः पुरुषार्थ एवानागतावस्थालक्षणसिद्धय प्रवर्तयतीत्यर्थः। चैतन्याभावेऽपि पुरुषार्थस्य प्रवर्तकत्वं संभवति
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । इत्युतः । एतत्सिद्धमिति-शरीरत्वं सिद्धमित्यर्थः ।
यत्किञ्चित्सृज्यते येन भूतं स्थावरजङ्गमम् । तस्य सृज्यस्य सम्भूता तत्सर्वं वै हरेस्तनुः ॥