SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां प्रकृतिविकृतिविभागपरीक्षा तद्गणनपरीक्षाच 175 तत्वमुक्ताकलापः र्वमावर्जनीयम् । दृष्टा सांख्यं पुराणादिकमपि बहधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छमब सर्वार्थसिद्धिः यथामति । तदिदमाह-दृष्ट्वेति । एतत्-इतरत्सर्वं वाक्यजातमित्यर्थः । किमिति पूर्वाचार्यैरत्रोपेक्षितं तत्राह-चिन्तेति न प्रधानविरोधस्स्यादीदृशानवधारणे । इति शिक्षयितुं शिष्यान् प्राचां क्वचिदनिश्चयः ॥ इति त्रिगुणपरीक्षायां प्रकृति विकृति विभाग परीक्षा तद्गणनपरीक्षा च. आनन्ददायिनी आकाशात् स्पर्शतन्मानं तम्माद्वायुः वायोः रूपतन्मानं तस्मातेज इत्यादिरूपः। मूलश्लोकस्यायमन्वयः- केचित्-सांख्यादयः सांख्यं योगं पुराणादिकं च दृष्ट्वा बहुधा निर्वहन्ति ; बहुधेत्यस्य दृष्ट्त्यत्रान्वयः । निर्वहन्ति-सृष्टिक्रमं वदन्ति । तदितरत् सर्व-आथर्वणवाक्यादितरत् सर्व। निष्कर्षेदम्परेऽस्मिन् निस्सन्देहं प्रकृतिविकृतिविभागेदम्परे आथर्वणवचने । आवर्जनीयं-आथर्वणोक्तानुसारेण नेतव्यमिति । औदासीन्यस्य प्रयोजनमाह-न प्रधानेति । तत्वहितपुरुषार्थप्रमितिविरोधाभावादीदृशावधारणे नावश्यं यत्नः कर्तव्य इत्यर्थः । अत्र पौरारिकः पक्षः आथर्वणिकाभिमतत्वाद्गन्थकारस्याभिमत इति द्रष्टव्यम् । न्यायसिद्धाञ्जने तु द्वादशप्रकृतिपक्षाङ्गीकारः प्रतीयते । तथा च पक्षान्तरमप्यस्तीत्याहुः ॥ १५ ॥ इति प्रकृतिविकृतिविभागपरीक्षा तद्गणनपरीक्षाच.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy