________________
जडद्रव्य
174
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः तत्वप्रकरणे गुणपरिंगणनानौचित्यात् । गुणशब्देन च क्वचिगुणाश्रयविवक्षा स्यात् । गत्यभावे गुणविवक्षायामप्यत्र द्रव्यविवक्षोपपत्तेः । आकाशाद्वायुरित्यादीन्यपि स्थूलसूक्ष्मभेदानादरेणेति समाधानम् । एवं स्थिते तामसाहङ्कारोत्पन्ने तन्मात्रपञ्चके भूतानि एकद्वित्रिचतुःपञ्चभिस्तन्मात्रैरारभ्यन्त इति साङ्ख्याः । पूर्वपूर्वतन्मात्राणि उत्तरोत्तरतन्मात्रमेकैकं भूतं जनयन्तीति पौराणिकाः। तत्राप्युत्तरोत्तरभूतसृष्टौ पूर्वपूर्वेषां तन्मात्राणां भूतानां वा सहकारित्वमिति पक्षभेदः । एवमन्यो
आनन्ददायिनी द्रव्यतत्वप्रकरणस्थोपबृंहणविशेषस्य का गतिरित्यत्राह—गुणशब्देनेति । 'त्रीणि रूपाणि सत्यं' गन्धविक्रयिकस्तथा' इत्यत्रेव गुणवाचकशब्दे तदाश्रयविवक्षेत्यर्थः । नन्वाकाशाद्वायुरित्यादिश्रुतिविरोध इत्यत्राह-आकाशाद्वायुरित्यादीति । तथाचाकाशादित्यादिपञ्चम्यन्तास्तन्मात्राकाशादिपराः । वाय्वादिशब्दाः प्रथमान्ताः स्थूलसूक्ष्मोभयपराः । तथाचायमर्थः-आकाशात्तन्मात्राकाशाद्वायुः । सूक्ष्मद्वारा स्थूल उत्पद्यत इत्यर्थः । एवमन्यत्रापि द्रष्टव्यं । एकद्विव्यादीतिभूतादितः पञ्च तन्मात्राणि । तत्राकाशमेकस्माच्छब्दतन्मात्रादुत्पद्यते । वायुः शब्दस्पर्शगुगयोगाच्छब्दस्पर्शतन्मात्राभ्यामुत्पद्यते । तदुभयसहिताद्रुपतन्मात्राद्गुणत्रयवत्तेजः । तत्रयसहिताद्रसतन्मात्रात्तद्गुणवजलं । तथा पञ्चभ्यस्तन्मात्रेभ्यः पञ्चगुणा पृथिवीति सांख्यसप्ततिव्याख्याने वाचस्पतिना प्रतिपादितत्वादित्यर्थः । तत्राप्युत्तरोत्तरभूतसृष्टाविति । यदि मूतानां सहकारित्वं तदा तन्मात्राणामुपादानत्वमिति केचित् । अन्ये -तदुभयस्यापि निमित्तत्वमेवेति वदन्ति । एवमन्योऽपीति