________________
रसः]
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लाप्तिभङ्गनिरासः
171
तत्वमुक्ताकलापः .-.. तत्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताष्षोडशान्ये
। सर्वार्थसिद्धिः । ननु तत्वसृष्टौ क्रमनियमो न सम्भवति 'आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु' इति सुबालोपनिषदाम्नानात् । अव्यवस्थिताश्च सृष्टिव्यवहाराः पृथ्व्यादिषु दृश्यन्ते । अतो यथाश्रुतं कल्पभेदात्सृष्टिभेदस्स्यादित्यत्राह-तत्वेष्विति । अधीयते च केचिदाथर्वणिकाः ‘अष्टौ प्रकृतयष्षोडश विकाराः' इति । अत्र तावदव्यक्तमहदहङ्कारतन्मात्राणां प्रकृतित्वमविगीतं । इन्द्रियेभ्यस्तत्वान्तरोत्पत्तिश्श्रुत्यन्तरेषु पुराणेषु वा न क्वचिदृश्यते । सौबाले च लया
आनन्ददायिनी द्रव्यस्य पृथ्व्यादिपरिणतिलाघवाय स्वीकार्येति जैनमतस्था आहुः । तत्रतदुक्तेषु एकस्य परिणतिरिष्टा। सा च क्रमनियता तथा लयश्च तथा दृढतरागमतः प्रतिपादनात् । या तु लाघवोक्तिः सा तर्कैकालम्बिगोष्ठ्यां बहुमतिं केवलानुमानतस्तत्वक्लप्तिगोष्ट्यां-साङ्ख्यगोष्ठयां भजत्विति ॥१४॥
इति त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभदक्लप्तिभङ्गनिरासः.
आक्षेपिकी संगतिरित्याह--ननु तत्वसृष्टाविति । सुबालोपनिषदीति । 'पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते' इत्यादिलयानुक्रमणात् लयस्थानस्योपादानत्वप्रतीतेरिति भावः । पूर्वोक्तगत्यन्तरमेव ज्याय इत्याहअत इति । ननु सुबालोपनिषद्वाक्यमस्तत्यिाह---सौबाले चेति । न च