________________
170
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः . . . . * कमजनिविलयौ त्वागमादप्रकम्प्यौ तर्कैकालम्बिगोष्ठयां भजतु बहुमतिं तादृशी लाघवोक्तिः । १४ ॥
सर्वार्थसिद्धिः नियतक्रमत्वे कल्पनागौरवमागमबलादपनयति-क्रमेति । लाघवतर्कस्य का गतिरित्यत्राह-तर्केति । * गुरुकल्पनाप्रवृत्तं प्रति हि लाघवोक्तिश्शोभते इति भावः ॥ १४ ॥ इति त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लप्तिभङ्गनिरासः.
आनन्ददायिनी गुरुकल्पनेति । न तर्कावकाश इति भावः । मूलस्यायमर्थःयथा पृथ्ळ्याः स्पर्शमेदः शूकशिम्बुपरिणामे द्रवत्वं घृतपरिणामे मृदुत्वं नवनीतपरिणामे काठिन्यं पाषाणादिपरिणामे दृष्टं तन्नयायेनैकस्यैव
भावप्रकाशः च्छेदेन साधनेंऽशतस्सिद्धेरदोषतापक्षेऽप्यप्रयोजकत्वमिति दूषणं स्फुटमित्युपेक्ष्य अपञ्चीकृतानामतीन्द्रियाणामनुमानतस्सिद्धयसंभवः पूर्वमुपपादित इति धर्मिग्राहकागमबाध एव *क्रमजनिविलयौ त्वागमादप्रकम्प्यौ इत्यनेनोक्तः । म्याद्वादा (जैना)गमस्य त्वप्रामाण्यं बुद्धिसरे परमतभङ्गे च स्थाप्यते इति ।
*गुरुकल्पनाप्रवृत्तश्च-नैयायिकः । स खलु अतीन्द्रियं जगतो निमित्तं ब्रह्म उपादानभूतं परमाण्वादिकमनुमानेन साधयति । एवं प्रकृत्यादिकमानुमानिकं वदन् साङ्ख्योऽपि तथा । आगमस्वाच्छन्द्यानभ्युपगमे भवन्मतेऽपि बहुवैयाकुली स्यादिति भावः ।