________________
सर:]
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लप्तिभङ्गनिरासः
169
भावप्रकाशः करणाकरणयोरेकत्र समावेशप्रसङ्ग इति भयात् सत्त्वेन वस्तुसामान्य क्षणिकं वदतां बौद्धानां प्रतिद्वन्द्विनः स्थिरं द्रव्यपर्यायार्थिकनयभेदेन विरुद्धानेकधर्मात्मकं वस्तु अभ्युपगच्छन्त्यनकान्तवादिनः । अन्ये च नैयायिकादयो दार्शनिकाः विरुद्धानामपि धर्माणां देशकालाद्यवच्छेदकभेदेनैकत्र वृत्तिमङ्गीकृत्य स्थिरं वस्तु साधयन्ति । एवं स्थिते द्रव्यं नित्यं पर्यायस्यैवोत्पादो विनाशश्चति द्रव्यांश एव सत्कार्यवादः द्रव्यपर्याययोर्भेद एवेति सिद्धान्ते विशेषणविशेष्यतत्सम्बन्धेषु सम्बन्ध्युभयात्मके विशिष्टवस्तुनि विशेषणान्तर्भावेन पर्याप्तधर्मावच्छेदन उत्पादविनाशाङ्गीकारेऽपि तद्भिन्नधर्भावच्छेदेन शुद्ध तदनङ्गीकारः इत्यवच्छेदकभेदेन विरोधविरहात् वस्तु स्थिरमिति साधनेन कथं जैनमतप्रवेशः? वस्तुनि विरुद्धानेकधर्मात्मकत्वानङ्गीकारात् । इयं च सरणिरङ्गीकृता बौद्धाधिकारे शिरोमणिना-आत्मनामुत्पत्त्यभावेऽपि विशेषणस्य शरीरस्य तथात्वाद्विशिष्टस्य तथात्वव्यपदेशः । अपूर्वशरीरादिसम्बन्धरूपं तु न मुख्यो जन्यर्थः इति । व्याख्यातं चात्र गदाधरेण-विशेषणोत्पत्तिक्षणस्य विशेष्याधिकरणसमयध्वंसाधिकरणत्वेऽपि विशिष्टाधिकरणसमयध्वंसानधिकरणत्वरूपाद्यत्वाक्षतेः तत्सम्बन्धरूपजननस्य विशिष्टेऽपि निर्वाहाच्चैत्रो जात इत्यगौणः प्रयोग उपपन्नः । जात इत्यस्याद्यशरीरसम्बन्धवानित्याद्यर्थकत्वे च जात इत्यस्य लाक्षणिकत्वापत्तिः । अन्यथा भाष्याधुपपादितदिशा
कार्यात्मना च नानात्वमभेदः कारणात्मना ।
इति कार्यकारणयोर्भेदाभेदवादी वाचस्पत्यादिरेव जैनस्स्यादिति भावः । यच्च-अकलङ्कविद्यानन्दाभ्यामबादौ गन्धादिसाधनानुमानं ; तत्र सामानाधिकरण्येन साधने पञ्चीकृताबादौ गन्धादेः सिद्धान्तेऽप्यङ्गीकारेण सिद्धसाधनं जले गन्धप्रत्यक्षोपपत्तिश्च । अवच्छेदकाव