SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 168 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः दश्च दृष्टः तद्वत्पथ्वीजलाग्निश्वसनपरिणतिर्लाघवायेति जैनाः। तत्र द्रव्यैक्यमिष्टं . सर्वार्थसिद्धिः नियतक्रमभूतसृष्टिकल्पना च*'लाघवयुक्तिविहता। तदेतदनुभाषते-पृथ्व्या इति (१६१पु.)। दूष्यांशव्यक्तचै शेषमनुमनुते-तत्र द्रव्यैक्यामिति । *त्रिगुणद्रव्यमेव हि वायवाद्यवस्थमिति भावः। आनन्ददायिनी न्धनेत्यर्थः । दूष्यांशेति । ननु जैनैरप्येकजातीयद्रव्यस्य परिणामभेदोऽङ्गीकृतः । सिद्धान्तेऽपि प्रकृतेः परिणामभेद इति तन्मतात्को भेदः? इति चेत् ; न ; सिद्धान्ते क्रमानयमस्याङ्गीकाराद्भेद इति भावः। भावप्रकाशः *'लाघवयुक्तीति-बाधकं प्रमाणं चोदाहृतानुमानं स्याद्वादागमश्चेति भावः । द्रव्यैक्यमिति मूले अविशेषाद्दव्यपर्याययोरप्यैक्यं विवक्षितं प्रतीयते ; तथा सति सिद्धान्तिनोऽपि जैनमतप्रवेशापत्तिः। अजामेकामित्यादिश्रुतिभिर्नित्यतयाऽङ्गीकृतायाः प्रकृतेरुत्पादविनाशाभ्युपगमेन ब्रह्मजीवयोः कार्यत्वाङ्गीकारेणोत्पादविनाशयोरकामेनापि स्वीकारस्यावश्यकत्वेन उत्पादव्ययध्रौव्याणामेकत्राङ्गीकारात् इति शङ्कां निराचिकीर्षुः कारणकार्यद्रव्ययोरैक्यं द्रव्यैक्यमिति मूले विवक्षितमित्याह*'त्रिगुणद्रव्यमिति 'सन्ति प्रागप्यवस्थाः' इत्यत्र अद्रव्यसरे च द्रव्यपर्याययोरभेदो निरसिष्यते । तत एव च सिद्धान्ते जैनमताद्विशेषो व्यकीभविष्यति । तथाहि-जैनाः खलु वस्तुनः स्थिरत्वे
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy