SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूत भेदक्लृप्तिभङ्गानुवादः सर्वार्थसिद्धिः र्यायान् भजत इति । यथा कणादप्रभृतीनां एकैकभूतपरमाणवः; यथा च साङ्ख्यादीनामेकैकं भूतं । अतो न शाश्वतभूतभेदक्लृप्तिः । वाय्वादिचातुर्विध्योक्तिरपि पर्यायभेदनिबन्धना । आनन्ददायिनी सरः] 167 दिभिरनियतवाय्वादिरूपपर्याया उत्पद्यन्त इत्युक्तमिति भावः । यथा कणादप्रभृतीनामिति ।' अनियतमृत्पाषाणाद्युत्पत्तिरित्यर्थः । न शाश्वतभूतभेदक्लृप्तिरिति । तैर्नित्यत्वानभ्युपगमादिति भावः । ननु वायुस्तेजो जलं भूमिरिति भिन्नाश्च पुद्गलाः । इति चातुर्विध्योक्तिः कथमित्यत्राह — वाय्वादीति । पर्यायः -पारणामः अवस्था इति यावत् । एकजातीयस्यैव परिणामभेदनिबभावप्रकाशः सहभवगुणात्मकपर्यायाभिप्रायेण मूले ' स्पर्शादिभेद ' इत्युक्तं । क्रमभवपर्यायतात्पर्येण 'द्रवमृदुकठिनीभावभेदः' इति । एतद्विषयेऽप्यव्यवस्थितक्रमत्वं 'नित्यावस्थितान्यरूपाणि (५-४-२ ) इति सूत्रेण गम्यते । यथाऽऽह विद्यानन्दः - द्रव्यार्थिकनयात्तानि नित्यान्येवान्वितत्वतः । अवस्थितानि साङ्कर्यस्यान्योन्यं शश्वदस्थितेः । ततो द्रव्यान्तरस्यापि द्रव्यषट्कादभावतः ॥ तत्पर्यायानवस्थानानित्यत्वे पुनरर्थतः । इति । परिणामस्त्रिविधः सदृशः विसदृशः सदृशविसदृशश्चेति । तत्र गोत्वादिः सदृशपरिणामस्सामान्यं । विसदृशपरिणामो विशेषः खण्डत्वादिः । नाशः प्रागभावश्चायमेव । सदृशविसदृशपरिणामश्च मृत्कपालघटाद्युपादानापादेयभावस्थले सर्वत्रेति बोध्यम् ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy