________________
172
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः विकाराः निष्कर्षेदम्परेऽस्मिन् वचसि तदितरत्स
. सर्वार्थसिद्धिः नुक्रमे पूर्वापरवाक्यवदिन्द्रियतन्मात्रवाक्ययोर्न लीयत इति पदमावृत्तं । एवं वाक्यरूप्ये सति अनुषङ्गाद्वरं अधिकरणविभक्तयाऽपि संसर्गमात्रग्रहणमिति स्थिते प्रकरणान्तरैककण्ठ्यं भवतीति केवलविकृतित्वमिन्द्रियाणां युक्तम् । भूतानां चाकाशादीनां चतुर्णां साक्षात्तन्मात्रद्वारेण वा तत्वान्तरोपा
आनन्ददायिनी तत्र साक्षादुपादानत्वश्रुतिः । न च लयो वा तत्र श्रुतः येन तदन्यथानुपपत्त्योपादानत्वं सिध्येदिति भावः । ननु वाक्यवैरूप्यपरिहारायानुषङ्गः कल्प्यतामित्यत्राह-अनुषङ्गाद्वरमिति । श्रुतमात्रादेवोपपत्तेरिति भावः । अनुषङ्गपक्षे पूर्वापरवाक्ययोर्लयश्रवणं व्यर्थं सर्वत्रानुषङ्गादेवोपपत्तेः ; अतो नानुषङ्ग इति व्यनक्ति-प्रकरणान्तरैककण्ठ्य-सृष्टिप्रकरणैककण्ठ्यं । अयं भावः-घ्राणादीनामिन्द्रियाणां पृथिव्यादिभूतैराप्यायनं श्रतिषु प्रसिद्धं । तत्र तत्र पृथिव्यादिषु वायुपर्यन्तेषु प्रलीनेषु तत्तदाप्यायकभूतानामपि प्रलीनतया तेषामाकाशदशापन्नत्वात् सर्वैरपीन्द्रियैः स्वान्तर्गतेतरभूतचतुष्टयस्याकाशस्यात्र लयं वक्तुं तस्य तन्मात्रावस्थापन्नस्येन्द्रियसंसर्गमनुवदति “ इन्द्रियाणि तन्मात्रेष्विति" । पूर्वमाकाशे संसृष्टानीन्द्रियाणि पश्चाच्छब्दतन्मात्रेषु संसृष्टानीति । अथ सेन्द्रियाणां तन्मात्राणां स्वकारणे लयमाह ' तन्मात्राणि भूतादौ ' इति । भूतादिशब्देनाहकारमात्रं विवक्षितं । आकाशादेव वायुः वायोरेवाकाशसहितात्तेजः तेजस एवापः अद्भय एव पृथिवीत्यद्वारकपक्षः । शब्दतन्मात्रादाकाशमाकाशात स्पर्शतन्मानं ततो वायुरिति सद्वारकपक्षः । तौ न युक्तावित्याह-भूतानां चाकाशादीनामिति । तथाचाथर्वणविरोध इति भावः। अत्र