________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
[সভ
162
सर्वार्थसिद्धिः * उक्तं च जैनैः-* पुद्गलाख्यमेकजातीयद्रव्यं तत्तत्सामग्री
आनन्ददायिनी व्यष्टावनियता समष्टौ नियतेति व्यवस्थेत्यर्थः । उक्तं च जैनैरितिविद्यानन्दादिभिरित्यर्थः । पुद्गलो नाम स्पर्शरसगन्धवर्णवद्दव्यं । तद्दिविध-परमाणुरूपं स्कन्धरूपं चेति । परमाणुसंयोगात् घणुकादयः
भावप्रकाशः 1*उक्तं चेति उदाहृतसूत्रादौ 'स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च । अणवः स्कन्धाश्च । भेदसंघातेभ्य उत्पद्यन्ते । भेदादणुः । भेदसंघाताभ्यां चाक्षुषः (५ अ २३-२८) इत्यादिसूत्रेषुक्तमित्यर्थः । अत्र प्रथमसूत्रश्लोकवार्तिके विद्यानन्द:
अथ स्पर्शादिमन्तस्स्युः पुद्गला इति सूचनात् ।
क्षित्यादिजातिभेदानां प्रकल्पननिराकृतिः ॥ पृथिव्यप्तेजोवायवो हि पुद्गलस्य पर्यायाः स्पर्शादिमत्त्वात् ये न तत्पर्यायास्ते न स्पर्शादिमन्तो दृष्टाः यथाऽऽकाशादयः स्पर्शादिमन्तश्च पृथिव्यादयः इति तज्जातिभेदानां निराकरणं सिद्धं । नन्वयं पक्षाव्यापको हेतुः स्पर्शादिः; जले गन्धाभावात् तेजसि गन्धरसयोः वायो गन्धरसरूपाणामनुपलब्धेरिति ब्रुवाणं प्रत्याह
नाभावोऽन्यतमस्यापि स्पर्शादीनामदृष्टितः ।
तस्यानुमानसिद्धत्वात् स्वाभिप्रेतार्थतत्ववत् ।। इत्याह । * पुद्गलाख्यमिति । पुद्गलशब्दः पारिभाषिकः यौगिको वा । यथाह-अजीवकाया धर्माधर्माकाशपुद्गलाः' इति । तत्वार्थराजवार्तिके