________________
सर:
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लूप्तिभङ्गानुवादः
163
सर्वार्थसिद्धिः भेदैः 1* अव्यवस्थितक्रमान् भिन्नाभिन्नस्वभावान् विचित्रप
आनन्ददायिनी स्कन्धा उत्पद्यन्ते । स्कन्धभेदनात्परमाणवः' इत्यादिभिरनियतवाय्वादिरूपपर्याया उत्पद्यन्त इत्युक्तमिति भावः । भेदनात्परमाणवः' इत्या
- भावप्रकाशः (५-१) भट्टाकलङ्कः-धर्मादयस्संज्ञास्सामयिक्यः । क्रियानिमित्ता वा इत्यारभ्य पूरणगलनान्वर्थसंज्ञत्वात्पुद्गलः । यथा भासं करोति भास्कर इति भासनार्थमन्तीय भास्करसंज्ञाऽन्वर्था प्रवर्तते तथा भेदात्संघाताद्भेदसंघाताभ्यां पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः । यथा शवशायनं श्मशानमिति । पुङ्गिलनाद्वा—अथवा पुमांसो जीवाः तैःशरीराहारविषयकरणादिभावेन गित्यन्त इति पुद्गला इति ।
___1*अव्यवस्थितक्रमान् भिन्नाभिन्नस्वभावान् विचित्रपर्यायानिति । तथाहि-'गुणपर्यायवद्दव्यं' इति सूत्रे राजवार्तिके भट्टाकलङ्कः-द्रव्यस्य द्वावात्मानौ सामान्य विशेषश्चेति । तत्र सामान्यमुत्सर्गो गुण इत्यनान्तरं । विशेषो भेदः पर्याय इति पर्यायशब्दः । तदुभयसमुदितं रूपं द्रव्यमित्युच्यते । गुणा एव पर्याया इति वा निर्देशः । द्रव्यस्य परिणमनं पर्यायः । तद्भेदा एव गुणाः न भिन्नजातीया इति। 'द्रव्याश्रया निर्गुणा गुणाः' इति सूत्रे च ; नित्यं द्रव्यमाश्रित्य ये वर्तन्ते ते गुणाः । पर्यायाः पुनः कादाचित्काः इति न तेषां ग्रहणं । तेनान्वयिनो धर्मा गुणा इत्युक्तं भवति । तद्यथा जीवस्यास्तित्वादयः ज्ञानदर्शनादयश्च । पुद्गलस्याचेतनत्वादयो रूपादयश्चेति। पर्यायाः पुनर्घटज्ञानादयः कपालादिविकाराश्चेत्याह । पर्यायस्वरूपानरूपणपरं च तद्भावः परिणामः'
11*