________________
सर:]
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लुप्तिभङ्गानुवादः
161
तत्वमुक्ताकलापः *. * पृथ्व्याः स्पर्शादिभेदो द्रवमूदुकठिनीभावभे
भावप्रकाशः राज़वार्तिके ..भट्टाकलङ्कः-स्पर्शादीनां कर्मभावसाधनत्वं द्रव्यपर्यायविवोपपत्तेः । स्पर्शादीनामानुपूर्येण निर्देश इन्द्रियक्रमाभिसम्बन्धार्थो वेदितव्यः इति । इन्द्रियक्रमाभिसम्बन्धार्थः--स्पर्शश्च रसश्च गन्धश्च. वर्णश्च शब्दश्च स्पर्शरसगन्धवर्णशब्दा इत्यानुपूर्येण निर्देशः स्पर्शनादिभिरिन्द्रियैः क्रमेणाभिसंबन्धो यथा स्यात् इति । एते पुगलद्रव्यस्य गुणा अविशेषेण वेदितव्याः । अत्र केचिद्विशिष्य तान् कल्पयन्तिरूपरसगन्धस्पर्शवती पृथिवी । रूपरसस्पर्शवत्य आपो द्रवाः स्रिग्धाश्च । तेजो रूपस्पर्शवत् । वायुः स्पर्शवानिति । तदयुक्तं--रूपादिमान् वायुः स्पर्शवत्त्वात् घटवत् । तेजोऽपि रसगन्धवत् रूपवत्त्वात् गुडवत् । आपोऽपि गन्धवत्यः रसवत्त्वादाम्रफलवत् । किञ्च अबादिषु गन्धादीनां साक्षादुपलब्धेश्च । पार्थिवपरमाणुसंयोगादुपलब्धिरिति चेन्न ; विशेषहेत्वभावात् । नात्र विशेषहेतुरस्ति पार्थिवपरमाणूनामेते गुणाः संसर्गात्त्वन्यत्रोपलभ्यन्ते ; न त्ववादीनामिति । वयं ब्रूमहे-तद्गुणाः तत्रोपलब्धेरिति । यदि हि संयोगादुपलब्धिः कथ्यते रसाधुपलब्धिरपि संयोगादेव कल्प्यताम् । नच पृथिव्यादीनां जातिभेदोऽस्ति ; पुद्गलजातिमजहन्तः परमाणुस्कन्धविशेषा निमित्तवशाद्विश्वरूपतामापद्यन्त इति दर्शनात् । दृश्यते हि पृथिव्याः कारणवशावता। द्रवाणां चापां करकात्मभावेन धनभावो दृष्टः । घनश्च द्रवभावः । तेजसोऽपि मषीभावः । वायोरपि दृष्टा रूपादयः । कथं गम्यते इति चेत् ; परमाणुषु तेषां रूपादीनां कथं गतिः? तत्कार्येषु दर्शनादनुमानमिति चेत् इहापि ततः एव वेदितव्यम् । इति । एतद्वार्तिकार्थमनुवदतिमूलें!* पृथ्व्या. इत्यादि। तत्र पुद्गलस्येति शेषः ।
SARVARTHA.
11