SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 160 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडंद्रव्य सर्वार्थसिद्धिः दुर्निवारमित्यर्थः । श्रुतिषु च न्यूननिर्देशेषु अनुक्तमधिकमन्यतो ग्राह्यं श्रुतहानायोगात् । अव्यवस्थितन्यूनाधिकसृष्टिकल्पने गौरवाच ॥१३॥ त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाण गतिव्यवस्था. ननु कथमेवं तोयतेजसोः व्यष्टिसमष्टिसृष्टिव्यवस्था? विचित्रपरिणामशालिनस्त्रिगुणस्य कालभेदेनानियतपरिणामोपपत्तेः । आनन्ददायिनी पृथिवीसृष्टेःव्यष्टितः पूर्वभावः प्रतिपाद्यत इति न विरोध इति भावः । नन्वेतच्छतिस्मृत्यनुसारेणैव श्रुत्यन्तराणां वा नयनं कुतो न स्यादित्यत आह-श्रुतिषु चेति । न्यूननिर्देशानुसारेणाधिकश्रुतेर्नयने विरोधादधिकश्रुत्यनुसारेण नयने शाखान्तराधिकरणन्यायेन विरोधाभावादिति भावः । नन्वन्यतरानुसारेण किमर्थमन्यतरा श्रुतिर्नेया ? विकल्पितयोः व्रीहियवयोः प्रयोगभेदेनेव कल्पभेदेनोभयोरुपपत्तरित्यत आह–अव्यवस्थितेति 'धाता यथापूर्वमिति' व्यवस्थायाः सर्वकल्पेषु श्रुतत्वादिति भावः ॥१३॥ त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाणगातव्यवस्था. आक्षेपिकी संगतिमाह-कथमिति । व्यष्टिसमष्टिसृष्टिव्यवस्था भावप्रकाशः तत्वार्थाधिगमसूत्रेषु–पञ्चेन्द्रियाणि । द्विविधानि । निर्वत्युपकरणे द्रव्येन्द्रियम् । लब्द्धयुपयोगौ भावेन्द्रियम् । स्पर्शनस्सनघ्राणचक्षुश्श्रोत्राणि । (२-अ १५-२०) इतीन्द्रियद्वैविध्यमभिधाय स्पर्शरसगन्धवर्णशब्दास्तदर्थाः (२-अ-२१) इत्युक्तम् । अत्र
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy