________________
सरः
त्रिगुणपरीक्षायां तोयतेजसाः परस्परहेतुता प्रमाणगतिव्यवस्था
159
सर्वार्थसिद्धिः ग्नेरप्यद्यः पूर्वभावित्वं बहुश्रुतिस्मृतिसिद्धं । अतस्तदविरुद्ध
आनन्ददायिनी एव ससर्जादाविति' श्रुतिस्मृती । इदमबादिकं कार्य सलिलं प्रकृतिरासीत्प्रळयकाल इत्यर्थः । आचार्यस्सलिलशब्दस्य प्रकृतिपरत्वस्य परमतभङ्गे प्रदर्शितत्वात् । न ह्यपां सर्वपूर्वभावः प्रतिपादयितुं शक्यः महदादीनां तत्पूर्वभाविनां दुरपह्नवत्वात् । नापि तेजःपूर्वभावः । नियामकाभावात् । तथा च " अग्नेरापः । तत्तेजोऽसृजत । आपस्तेजसि लीयन्ते । प्रधानं तत्वमुद्भूतमिति” बहुश्रुतिस्मृत्यन्तरानुगुण्येन
भावप्रकाशः इत्युपक्रम्य
विगानाद्धि विकल्पस्स्यात् नैकस्याप्यप्रमाणता । इति च । विरोधाधिकरणनिष्कर्षणं तु
यावदेकं श्रुतौ कर्म स्मृतौ वाऽन्यत्प्रतीयते । तावत्तयोविरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥ ततश्च तुल्यकक्षाऽपि यदि नाम स्मृतिर्भवेत् ।
तथाऽपि नैव दोषोऽस्ति श्रुत्यर्थमनुतिष्ठताम् ॥ इति । तदुक्तं न्यायपरिशुद्धौ–' श्रुतिस्मृत्योर्विरोधे तु स्मृत्या मूलान्तरानुमानादनुष्ठानविकल्पं केचिदाहुः' इति । एतदुत्तरं 'सर्वेषां गुणत्रयवतामाप्ततमत्वे हि कादाचित्कभ्रमसंभवाच्छ्रुत्या स्मृतिबाध इत्यपरे' इति सूक्तिः शाबरभाष्यपरिष्कृतिः । अत्राबाधेन गतिमत्त्वसम्भवे इत्यनेन 'तत्वविषये तु विरोधे बाध एव आन्यपर्यं वा वस्तुनि विकल्पासंभवात्' इति न्यायपरिशुद्धयुक्तपक्षद्वये आन्यपर्यपक्ष एव स्वाभिमत इति सूचितम् ॥