SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 158 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः तत्वसृव्यैकरूप्यात् । व्यष्टौ ताभ्यः कदाचित्तदुपजनिरतो व्यत्ययस्तत्समष्टौ आदावप्सृष्टिवादः श्रुतिमितमितरं न प्रतिक्षेप्नुमोष्टे ॥ १३ ॥ सर्वार्थसिद्धिः स्वेष्टां गतिमाह-व्यथाविति । निमित्तभूताभ्य इति भाव्यं । अतश्शब्दो हेतुमवधि वा ब्रूते । ननु 'आपो वा इदमग्रे' 'अप एव ससर्जादौ' इत्यादिश्रुतिस्मृतिदर्शनादग्नयादेस्सर्वस्याझ्यस्सृष्टिस्स्यात् इत्यत्राह-आदाविति । महदादीनामिवा आनन्ददायिनी निमित्तभूताभ्य इति । 'अद्भयोऽनिरिति' वचनं व्यष्टिसृष्टौ तेजः प्रति निमित्तकारणत्वमाह यथा तप्ततैलेऽग्निमुत्पादयन्त्यापः । ‘अनेराप' इति तु समष्टिसृष्टौ उपादानत्वमाहेति न विरोध इत्यर्थः । पञ्चीकृतेभ्यः (भूतत्वापन्नेभ्यः) उत्पत्तिय॑ष्टिसृष्टिः ततः प्राक्तनसृष्टिस्समष्टिसृष्टिः । न्यायत ? इत्यनेनैव हेतुत्वस्य सिद्धत्वादत इति शब्दवैयर्थ्यमिति पक्षान्तरमाह-अवधिमिति । अतस्तेजसस्सकाशादित्यर्थः । श्रुतिस्मृतिभ्यामपामेवादावुत्पत्तिश्रवणादुक्तनिर्वाहो नोपपद्यत इत्याशङ्कय समाधत्ते-नन्वित्यादिना 'आपो वा इदमग्रे सलिलमासीत् ' । 'अप भावप्रकाशः ततश्च श्रुतिमूलत्वाद्वाघ्योदाहरणं न तत् । विकल्प एव हि न्याय्यस्तुल्यकक्षप्रमाणतः ॥ इति । व्याकरणाधिकरणेऽपि स्मृतीनामप्रमाणत्वे विगानं नैव कारणम् ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy